________________
चूर्णिभाष्यावचूरिः उ० १८ सू०-१-९
नौकाया आरोहणक्रयणादिनिषेधः ४०३
छाया - एवं यः चतुर्दशे उद्देशे प्रतिग्रहगमः स ज्ञातव्यः यावद् आछेद्यम् अनिसृष्टम् अभिहृतम् आहत्य दीयमानं दूरोहति दूरोहन्तं वा स्वदते ॥ सू० ३ ॥
चूर्णी - ' एवं ' इत्यादि । ' एवं ' एवम् अनेन प्रकारेण नौक्रीणनरीत्या 'जो चउदसमे उसे पडिग्गहगमो' यश्चतुर्दशे उद्देशे प्रतिग्रहगमः पात्रग्रहणगमकः प्रोक्तः 'से णेroat' सोऽत्र नौकाविषये ज्ञातव्यः - वक्तव्यः कियत्पर्यन्तमित्याह - ' जाव' यावत् 'अच्छेज्जं ' आच्छेद्यां कस्यापि हस्तादाच्छिय स्थापितां 'अणिसिद्धं' अनिसृष्टां नौकां स्वामिनाऽदत्तां तत्स्वामिन अज्ञामन्तरेण गृहीताम् 'अभिहर्ड' अभिहृतां - स्थानान्तरात् आनीताम् 'आददु दिज्जमाणं' आहत्य - संमुखमानीय दीयमानां नावम् ' दूखहइ' दूरोहति - आरोहति 'दुरुतं वा साइज ' दूरोहन्तं - नावमधिरोहन्तं श्रमणान्तरं स्वदते स प्रायश्चित्तभागी भवति । अत्र सूत्रे 'जाव' इति यावत्पदेन " जे भिक्खू' नावं पामिच्चेइ नावं परियट्टेइ' इति सूत्रद्वयं संप्राम् अर्थस्तत्रैव चतुर्दशोद्दे के द्रष्टव्य इति । विशेषस्तावदे तावानेव यत्- चतुर्दशो देशके प्रतिग्रहशब्दः प्रोक्तः, अत्र तु 'नौ' शब्द प्रयोज्य आलापका विधातव्या इति ॥
अत्राह भाष्यकारः
भाष्यम् – 'जो कीणइ सयं णावं, पामिच्चाइयमारुहे । आणाभंगाइ पावेइ, मिच्छतं च विराहणं ॥
छाया -- यः क्रोणाति स्वयं नौकां प्रामित्यादिकामारोहेत् । आज्ञाभङ्गादि प्राप्नोति मिध्यात्वं च विराधनम् ॥
अवचूरिः -- यो भिक्षुः श्रमणः श्रमणी वा स्वयमेव नौकां क्रीणाति - मूल्यसमर्पणेन स्वात्माधीनां करोति अन्यद्वारा वा नौकायाः क्रयणं कारयति तथा प्रामित्यादिदोषदुष्टां नावमारोहेत् पूर्वोक्तप्रकारां नौकामधिरोहति, आरोहन्तं नौकायामधिरोहणं कुर्वन्तं श्रनणान्तरमनुमोदते, स आज्ञाभङ्गमनवस्थां मिथ्यात्वं संयमविराधनमात्मविराधनं च प्राप्नोतीति भाष्यार्थः ॥ सू० ३-५ ॥
सूत्रम् -- जे भिक्खू थलाओ नावं जले ओक्कसावेइ ओक्सावेत वा साइज्जइ ॥ सू० ६ ॥
छाया -यो भिक्षुः स्थलात् नावं जले अवकर्षयति अवकर्षयन्तं वा स्वदते ॥सू० ६ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'थलाओ' स्थलात्जलपार्श्वस्थभूमिभागात् तटादित्यर्थः 'णावं' नावम् - नौकाम् 'जले ओक्कसावेइ' जले - नद्यादिजलप्रवाहे अवकर्षयति- अवतारयति स्थले विद्यमानां नौकां जले करीति - कारयति वा तथा
શ્રી નિશીથ સૂત્ર