SearchBrowseAboutContactDonate
Page Preview
Page 495
Loading...
Download File
Download File
Page Text
________________ ४०४ निशीथसूत्रे 'ओक्कसावेंतं वा साइज्जइ' अवकर्षयन्तं स्थलात् जले नौकामवतारयन्तं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ६ ॥ सूत्रम्-जे भिक्खू जलाओ नावं थले उक्कसावेइ उक्कसावेंतं वा साइज्जइ ॥ सू० ७॥ छाया-यो भिक्षुः जलात् नावं स्थले उत्कर्ष यति उत्कर्षयत वा स्वदते॥सू० ७॥ चूर्णी-जे भिक्खु' इत्यादि । जे भिक्खू यः कश्चिद्भिक्षुः 'जलाओ नावं थले उक्क सावेइ' जलात् - नद्यादिजलमध्यात् नौकां स्थले उत्कर्षयति-जलस्थां स्थले करोति परद्वारा वा कारयति जले संतरन्ती नौकां जलात् निष्कास्य भूमिभागे स्थापयतीत्यर्थः, तथा-'उक्कसावेतं वा साइज्जइ' उत्कर्षयन्तं-जलात् नौकां स्थले कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ७॥ सूत्रम्-जे भिक्खू पुणं णावं उस्सिंचइ उस्सिचंतं वा साइज्जइ ॥ छाया-यो भिक्षुः पूणी नावमुत्सिञ्चति उत्सिञ्चन्तं वा स्वदते ॥सू० ८॥ चूर्णी ... 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'पुणं नावं' पूर्णां जलपूर्णा नौकाम् सच्छिद्रत्वाजलेन परिपूर्णा नावं यः श्रमणः श्रमणी वा 'उस्सिंचई' उत्सिञ्चति नौकायां स्थितं जलम् अञ्जल्यादिना अन्येन केनापि साधनेन बहिनिष्कासयति तथा 'उस्सिंचंतं वा साइज्जइ' उत्सिञ्चन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । सू० ८॥ सूत्रम्-जे भिक्खू विखुण्णं णावं उप्पिलावेइ उप्पिलावेंतं वा साइज्जइ ॥ सू० ९॥ छाया-यो भिक्षुर्विक्षुण्णां नावम् उत्प्लावयति उत्प्लावयन्तं वा स्वदते ॥ सू०७ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विखुणं' विक्षुण्णाम्-जले पङ्के वा मग्नाम् नौकाम् 'उप्पिलावेइ' उत्प्लावयति नौकां जलात् पङ्काद्वा उपरि उत्थापयति स्वयं परद्वारा वा तथा-'उप्पिलावेंतं वा साइज्जइ' उत्प्लावयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।। सू० ९॥ सूत्रम्-जे भिक्खू पडिणावियं कटु णावाए दूरूहइ दूरुहंतं वा साइज्जइ ॥ सू० १० ॥ छाया --यो भिक्षुः प्रतिनाविकं कृत्वा नौकायां दूरोहति दूरोहन्तं स्वदते ॥ सू० १० ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy