________________
॥ अष्टादशोदशकः॥ सप्तदशोद्देशक व्याख्याय तदनु अवसरप्राप्तोऽष्टादशोदेशकः प्रारभ्यते, अथास्याष्टादशोद्देशकादिसूत्रस्य सप्तदशोदेशकान्तिमसूत्रेण सह कः सम्बन्धः ? इति चेदत्राह भाष्यकारःभाष्यम्- सदस्स सवणहाए, गमणं दुविहं भवे ।
___ जलेण थलमग्गेण जलेणेत्थ निसिज्झइ ॥ छाया- शब्दस्य श्रवणार्थाय गमनं द्विविधं भवेत् ।
जलेन स्थलमार्गेण जलेनात्र निषिध्यते ॥ अवचूरिः-- सप्तदशोदेशके शब्दस्य श्रवणार्थाय ततविततशुषिरादिवादित्राणां तथा अनेकेषां विविधशब्दानां श्रवणाय, तत्र स्थलविशेषे 'ततविततशुषिरादिवादित्राणां मनोहरशब्दोऽवश्यमेव श्रोतव्यः' इत्येवं प्रकारेण मनसा निश्चयं करोति, तच्छवणं च शब्दस्थानमगत्वा असंभवि इति मत्वा अवश्यमेव गमनं करिष्यति, तद् गमनं द्विविध-द्विप्रकारकं भवेत् एकं गमनं जलेन--जलमार्गेण द्वितीयं च गमनं स्थलमार्गेण । तत्र पूर्व शब्दश्रवणार्थ स्थलमार्गस्य निषेधः कृतः । जलमार्गेण गमनं तु नावमाश्रित्य भवतीति नौकाविषयको निषेधोऽत्रास्मिन् उद्देशके करिष्यते, अयमेव सम्बन्धः पूर्वापरोदेशकसूत्रयोर्भवतीति, तदनेन संबन्धेन आयातस्यास्याष्टादशोदेशकस्येदं प्रथमं सूत्रम्
सूत्रम्-जे भिक्खू अणट्ठाए णावं दूरूहइ दूरूहंतं वा साइज्जइ ॥ छाया -“यो भिक्षुः अनर्थाय नावं दुरोहति दूरोहन्तं वा स्वदते ॥ सू. १॥
चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अण. ढाए' अनर्थाय तत्र न अर्थाय इति अनर्थाय अत्रार्थशब्दः प्रयोजनार्थद्योतकस्तथा च प्रयोजन मन्तरेणैव इत्यर्थः । अथवा-अनर्थाय-स्वेष्टसिद्धेविघातकाय साधूनामिष्टं मोक्षप्राप्तये संयमाराधनम्, नहि संयमाराधनमकृत्वा कोऽपि मोक्षभागी संभवति 'ज्ञानदर्शनचारित्रतपांसि मोक्षमार्गः' इति नियमात् नावादिना जलसंतरणेऽवश्यं षट्कायजीवानामतिपातो भवेत् ततश्च संयमो विराधितो भवति ततः 'अणद्वाए' अनर्थाय येन संयमविराधना संपद्यते सोऽनर्थस्तस्मै, अथवा ना - शब्दोऽत्र अल्पार्थकस्तेन अनर्थाय अल्पप्रयोजनाय संयमसम्बन्धिगाढाऽऽगाढकारणमन्तरेण साधो वारोहणं शास्त्रे निषिद्धम्, ततो यो गाढागाढकारणमन्तरेण ‘णावं' नावं नौकां नद्यादिजलाशयस्य पारगमनाय 'दुरूहई' दूरोहति नौकायामधिरोहणं करोति तथा 'दुरूहतं वा
શ્રી નિશીથ સૂત્ર