________________
४००
निशीथसूत्रे
अत्राह भाष्यकारःभाष्यम्-‘वप्पाइयं तहा ख्वा,-इयं सोयपडिन्नया ।
अभिसंधारए सज्जे आणाभंगाइ पावइ ॥ छाया-वादिकं तथा रूपादिकम् श्रोत्रप्रतिज्ञया ।
अभिसंधारयेत् सज्जेत आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः- यो भिक्षुः वप्रादिकं तथा रूपादिकम् ऐहलोकिकपारलोकिकेति मनुष्यतिर्यक्सम्बन्धिरूपादिकं तद्वार्तादिकं श्रोतःप्रतिज्ञया श्रवणेच्छया मनसि अभिसंधारयेत् , श्रोतं मनसि निश्चयं कुर्यात् सज्जेत वा तत्र आसक्तो वा बवेत् तदा स भिक्षुः आज्ञाभङ्गादिकं प्राप्नोति ॥२७० ॥
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं उग्घाइयं ॥ सू० २७१॥
॥ निसीहज्झयणे सत्तरसमो उद्देसो समत्तो ॥ १७॥ छाया-तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् ॥ सू० २७१॥
॥ निशीथाध्ययने सप्तदशोद्देशकः समाप्तः ॥१७॥ चूर्णी- 'त' तत् उद्देशकादित आरभ्यादशकान्त पर्यन्तकथितप्रायश्चित्तस्थानानि 'सेवमाणे' सेवभानः-प्रतिसेवनां कुर्वन् 'आवज्जई' आपद्यते-प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारठाणं' परिहारस्थानम् अर्थात् प्रायश्चित्तं कीदृशम् ! 'उग्धाइयं उद्घातिकम् लघुकमिति ॥३३॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालव्रति-विरचितायां “निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् सप्तदशोदेशकः समाप्तः ॥१७॥
શ્રી નિશીથ સૂત્ર