________________
चूर्णिभाष्यावचूरिः उ० १७ सू० २७०-२७१ वप्रादीनां प्रशंसानिन्दादिश्रवणेच्छानिषेधः ३९९
छाया-यो भिक्षुः वप्रान् वा परिरवा वा यावत् ऐहलोकिकेषु वा रूपेषु पारलोकिकेषु वा रूपेषु यावत् अध्युपपद्यमानं वा स्वदते ॥ सू० २७० ।।
चूर्णी—'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमण: श्रमणी वा 'वप्पाणि वा' वप्रान् वा वप्र' इति केदारः, दुर्गः, प्राकारः क्षेत्रम्, उन्नतभूभागो बा प्रोच्यते, तान् तादृशान्. वा स्थानविशेषान् , 'फलिहाणि वा' परिखा वा या ग्रामादेः समन्तात् परिवृता गर्तरूपा याः 'वाई' इति प्रसिद्धास्ताः, 'जाव' यावत् , यावत्पदेन इत आरभ्य 'इहलोइएमु वा रूवेसु' इति सूत्रपर्यन्तानि द्वादशोदेशकोक्तानि चतुर्दश सूत्राणि संग्राह्याणि, तत्र वप्रादीनां प्रशंसानिन्दात्मकानि वार्तादीनि कर्णश्रोतःप्रतिज्ञया अभिसंधारयति, अभिसंधारयन्तं वा स्वदते,॥ सू०२६९।। तथा 'इहलो इएसु' ऐहलोकिकेषु ऐहलोकिकशब्देन मनुष्या गृह्यन्ते तेन ऐहलोकिकेषु मनुष्यसम्बन्धिषु 'रूवेसु' रूवेषु तथा 'परलइएसु रूवेमु' अत्र पारलोकिकशब्देन तिर्यञ्चो गृह्यन्ते, तेन पारलोकिकेषु हयगोगजादितिर्यक्षु दृष्टादृष्टादिभेदभिन्नेषु रूपेषु 'जाव' यावत्-यावत्पदेन 'सज्जइ रज्जइ गिज्झइ अज्झोववज्जइ सज्जंतं रज्जंतं गिझंतं' आसक्तिं करोति, रागं करोति, गृद्धि करोति, अध्युपपत्तिं करोति, तथा-पूर्वोक्तं कुर्वन्तम् तथा 'अज्झोववज्जतं' अध्युपपद्यमानम् - अध्युपपत्ति कुर्वन्तम् श्रमणान्तरम् 'साइज्जइ' स्वदते-अनुमोदते स प्रायश्चित्तभागी भवतीत्यन्तिमसूत्रार्थः । अत्र प्रथमयावत्पदेन-'जेभिक्खू कप्पाणि वा फलिहाणि वा० १ एवं वणाणि वा गहणाणि वा २, गामाणि वा णगराणि वा० ३, गाममहाणि वा णगरमहाणि वा० ४, गामवहाणि वा णगरवहाणि वा० ५, गामपहाणि वा णगरपहाणि वा ६, आसकरणाणि वा हस्थिकरणाणि वा० ७, आसजुद्धाणि वा हत्थिजुद्धाजि वा० ८, हयठाणाणि वा हयजूहियठाणाणि वा० ९ अभिसेयठाणाणि वा अक्खाइयठासुणाणि वा १०, कटकम्माणि वा चित्तकम्माणि० वा ११, डिंबाणि वा डमराणि वा० १२, विरूवरूवेसु महुस्सवेसु इत्थीणि वा पुरिसाणि वा० १३ इहलोइएसु वा रूवेसु० १४, इति चतुर्दश सूत्राणि द्वादशोदेशकेऽवलोकनीयानि, अर्थोऽपि तत्रैव द्रष्टव्य इति । विशेषस्त्वयम्-यत्तत्र 'चक्खुदंसणवडियाए' इत्युक्तम् , अत्र तु 'कण्णसोयवडियाए' इति वाच्यम् । पुनश्च तत्र वप्रादीनां चक्षुषा दर्शनविषयको निषेधः प्रतिपादितः, अत्र तु वप्रादीनां प्रशंसानिन्दात्मकवायाः कर्णाभ्यां श्रवणविषयको निषेधो ज्ञातव्य इति । तस्मात् कारणात् श्रमणः श्रमणी वा वप्रादीनां प्रशंसानिन्दामकवार्तादिश्रवणेच्छया विचार न कुर्यात् नापि विचारं तत्कुर्वन्तमनुमोदयेत्, तथा पारलोकिकदृष्टादृ ष्ष्टज्ञाताज्ञातश्रुताश्रुतरूपरसगन्धस्पर्शेषु कदाचिदपि आसक्तिरागादिकं न कुर्यात् न वा कारयेत् तथा तादृशरूपादिषु आसक्तयादि कुर्वाणं श्रमणान्तरं कथमपि कदाचिदपि नानुमोदयेत् ।।
શ્રી નિશીથ સૂત્ર