________________
चूर्णिभाष्यावचूरिः उ० १६ सू० ३०-३६ नुगुप्सितकुलस्वाध्यायाद्यशनादिपरिष्ठापननि० ३७३
सूत्रम् - जे भिक्खू दुर्गुछियकुलेसु सज्झायं समुद्दिसइ समुद्दिसंत वा साइज्जइ ॥ सू० ३० ॥
छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं समुद्दिशति समुद्दिशन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू यः कश्चिदभिक्षुः श्रमणः श्रमणी वा 'दुर्गुछियकुलेस' जुगुप्सितकुलेषु 'सज्झायं समुद्दिसइ' स्वाध्यायं समुद्दिशति सूत्रमर्थ तदुभयं वा अनेकबारमध्यापयति तथा 'समुद्दिसंतं वा साइज्जइ' समुद्दिशन्तं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ३० ॥
सूत्रम् -- जे भिक्खु दुछियकुलेसु सज्झायं अणुजाणइ अणुजाणतं वा साइज्जइ ॥ सू० ३१॥
छाया- -- यो भिक्षुः जुगुप्सितकुलेषु स्वाध्याय मनुजानाति अनुजानन्तं वा स्वदते ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुप्सितकुलेषु समुपविश्य श्रमणं यं कमपि वा 'सज्झायं' स्वाध्यायम् - सूत्रार्थतदुभयात्मकं द्वादशाङ्गीलक्षणम् 'अणुजाणई' अनुजानाति -प्रशंसति तथा 'अणुजाणंतं वा साइज्जइ' अनुजानन्तं वा स्वदते-- अनुमोदते स प्रायश्चिद्धभागी भवति ॥ सू० ३१ ॥
सूत्रम् -- जे भिक्खू दुगुछियकुलेसु सज्झायं वाएइ वायंतं वा साइज्जइ ॥ सू० ३२ ॥
छाया -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं वाचयति वाचयन्तं वा स्वदते ॥३२॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुगुं - छियकुलेसु' जुगुप्सितकुलेषु 'सज्झायं वाएइ' स्वाध्यायं वाचयति - शास्त्रस्य वाचनां ददाति 'वायतं वा साइज्जइ' वाचयन्तम् वाचनां ददतं श्रमणान्तरं स्वदते - अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ३२ ॥
सूत्रम् -- जे भिक्खू दुगुंछियकुलेसु सज्झायं पडिच्छइ पडिच्छंत वा
साइज्जइ || सू० ३३॥
- यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ ३३ ॥
छाया
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'दुर्गछियकुलेस' जुगुप्सितकुलेषु 'सज्झायं' स्वाध्यायं सूत्रमर्थं च 'पडिच्छइ' प्रतीच्छति - स्वोक
--
શ્રી નિશીથ સૂત્ર