SearchBrowseAboutContactDonate
Page Preview
Page 465
Loading...
Download File
Download File
Page Text
________________ ३७४ निशीथसूत्रे रोति तथा 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ३३ ॥ सूत्रम्-जे भिक्खू दुगुंछियकुलेसु सज्झायं परियट्टेइ परियदृतं वा साइज्जइ । सू० ३४॥ छाया- -यो भिक्षुः जुगुप्सितकुलेषु स्वाध्यायं परिवर्तयति परिवर्तयन्तं वा स्वदते ३४ ___ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चि भिक्षुः श्रमणः श्रमणी वा 'दुगुछियकुलेसु' जुगुप्सितकुलेषु 'सज्झाय' स्वाध्यायम्-सूत्रमर्थ वा 'परियट्टई' परिवर्तयतिसूत्रार्थतदुभयस्य पुनरावर्तनं करोति करयति वा तथा 'परियत वा साइज्जइ' परिवर्तयन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागो भवति ॥ सू० ३४ ॥ सूत्रम्-जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा पुढवीए णिक्खिवइ निक्खिवंतं वा साइज्जइ॥३५॥ छाया--यो भिक्षुः अशनं वा पानं वा खाद्य स्वाद्य वा पृथिव्यां निक्षिपति निक्षिपन्तं वा स्वदते ॥ सू० ३५ ॥ चूर्णी--'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वायं वा 'पुढवीए' पृथिव्याम् ‘णिक्खिवइ' निक्षिपति-आहारावशिष्टमशनादिकं पृथिव्यां स्थापयतीत्यर्थः, तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति पिपीलिकादिप्राण्युपमर्दनसंभवात् ॥ ३१ ॥ सूत्रम्--जे भिक्खू असणं वा पाणं वा खाइमं वा साइमं वा संथारए णिक्खिवइ णिक्खिवंतं वा साइज्जइ ॥ सू० ३६॥ छाया- यो भिक्षुरशनं वा पानं वा खाद्यं वा स्वाद्य वा संस्तारके निक्षिपति निक्षिपन्तं वा स्वदते ॥ सू० ३६ ॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वायं वा 'संथारए' संस्तारके-आसने यत्र स्वपिति उपविशति वा तत्रैव आसने तमशनादिचतुर्विधमाहारजातं दर्भादितृणसंस्तारके वस्त्रसंस्तारके काष्ठपट्टकादौ वा 'णि क्खिवई' निक्षिपति--संस्थापयति तथा 'णिक्खिवंतं वा साइज्जई' निक्षिपन्तं-स्थापयन्तं वा-श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ३६ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy