________________
चूर्णिभाष्यावचूरिः उ० १६ सू० २४-२९ जुगुप्सिकुलाशनादिग्रहणनिषेधः ३७१
सूत्रम्-जे भिक्खू विरूवरूवाई दस्सुयाययणाइं अणारियाइं मिल. क्खुई पच्चंतियाई संति लाढे विहाराए संथरमाणेसु जणवएसु विहाखडि. याए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ।। सू० २४॥
_ छाया--यो भिक्षुः विरूपरूपाणि दस्युकायतनानि अनार्याणि म्लेच्छानि प्रात्यन्तिकानि सति लाढे विहाराय संस्त्रियमाणेषु जनपदेषु विहारप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २४ ॥
___ चूर्णी--'जे भिक्खू' इत्यादि । यः किश्चिद्भिक्षुः श्रमणः श्रमणी वा 'विरूवरूवाई' विरूपरूपाणि शकयवनाद्यन्यान्यवेषभूषादिनाऽनेकप्रकारकाणि 'दस्सुयाययणाइ' दस्युकायतनानि दस्युकाः-चौरास्तेषामायतनानि-स्थानानि कीदृशानीत्याह-'अणारियाई' अनार्याणिअनार्यैः-आर्यभिन्नैः परिसेव्यमामानि 'मिलक्खुई' म्लेच्छानि-ग्लेच्छैः परिसेव्यमानानि, तत्र म्लेच्छास्ते ये अव्यक्तभाषिणः यदा रुष्टास्तदा दुःखमुत्पादयन्ति धर्मे दुष्प्रबोधाः सर्वादरेण भोजनशीलाः अकालपरिभोगिनो रात्रावेव जागरणशीलाः धर्ममधर्म मन्यमाना इत्थंभूता म्लेच्छास्तेषां स्थानानि, पुनः 'पच्चंतियाई' प्रात्यन्तिकानि प्रत्यन्तानि अनार्याणि तैः सेवितानि 'संति साढे' सति लाढे सत्यन्यस्मिन् देशे 'विहाराए' विहाराय 'संस्थरमाणेसु' संस्त्रियमाणेषु 'जणवएसु' जनपदेषु व्याख्या पूर्ववत् विहारवडियाए' विहारप्रतिज्ञया यो भिक्षुर्दस्युकानार्यम्लेच्छदेशेषु गमनाय विहारभावनया 'अभिसंधारेइ' अभिसंधारयति-विचारं करोति कारयति वा तथा 'अभिसंधारेत वा साइज्जई' अभिसंधारयन्त-तत्र गमनाय विचारं कुर्वन्तं कारयन्तं वा श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग भवति ।। सू० २४ ॥
सूत्रम्-जे भिक्खू दुगुंछियकुलेसु असणं वा पाणं वा खाइमं वा साइयं वा पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ॥ सू० २५॥
छाया-यो भिक्षुः जुगुप्सितकुलेषु अशनं वा पानं वा खाद्यं वा स्वायं वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते ॥ सू० २५ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'दुगुंछियकुलेसु' जुगुण्सितकुलेषु-निन्दितकुलेषु, तच्च-चर्मकार मद्यविक्रयि-मद्यपायि-भिल्ल-धीवरादिकुलम् , यद्वा यद् हि यत्र देशे निन्दितत्वेन प्रसिद्धम् तेषु तथाविधेषु कुलेषु असणं वा' अशनं वा 'पाणं वा' पानं वा 'खाइमं वा' खाद्य वा 'साइमं वा' स्वाद्य वा 'पडिग्गाहेई' प्रतिगृह्णाति-स्वीकरोति 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृह्णन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २५॥
શ્રી નિશીથ સૂત્ર