________________
३७०
निशीथसूत्रे चूर्णी- 'जे भिक्खू इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम् व्युद्ग्रहव्युत्क्रन्तेभ्य इत्यर्थः सज्झायं' स्वाध्यायम्सूत्रार्थतदुभयरूपम् 'पडिच्छइ' प्रतीच्छति 'पडिच्छंतं वा साइज्जइ' प्रतीच्छन्तं वा श्रमणान्तरं स्वदते- अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकार:---- 'वुग्गहवुक्कंताणं, असणा आरभ जो य सज्झायं ।
देइ पडिच्छइ भिक्ख, आणाभंगाइ पावेइ ॥ छाया-व्युद्ग्रह व्युत्क्रान्तानां (व्युद्ग्रहव्युत्क्रान्तेभ्यः) अशनादारभ्य यश्च स्वाध्यायम् ।
___ ददाति प्रतीच्छति भिक्षुः, आज्ञाभङ्गादि प्राप्नोति ॥
अवचूरिः-यश्च भिक्षुः व्युद्ग्रहव्युत्क्रान्तानां अशनादारभ्य स्वाध्यायम्-अशनादिकं वस्त्रादिकं वसतिं ददाति प्रतीच्छति तत्र प्रविशति वा, तथा स्वाध्यायं च ददाति, तेषां सकाशात् स्वाध्यायं स्वीकरोति वा स आज्ञाभङ्गादिकं प्राप्नोतीति ॥ सू० २२ ॥
सूत्रम्--जे भिक्खू विहं अणेगाहगमणिज्जं संति लाढे विहाराए संथरमाणेसुजणवएसु विहाखडियाए अभिसंधारेइ अभिसंधारेतं वा साइ. ज्जइ ।। सू० २३॥
छाया- यो भिक्षुर्वीथिमनेकाहगमनीयां सति लाढे विहाराय संस्त्रियमाणेषु जनपदेषु विहारप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० २३ ॥
चूर्णी- 'जे भिक्खू' इत्यादि । यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'विहं' वीथिम् कथंभूतां वीथिम् ? तत्राह-'अणेगाह०' इत्यादि, 'अणेगाहगमणिज्जं' अनेकाहगमनीयाम् अनकैरहोभिः-दिवसैः गमनीयाम्-गन्तुयोग्यामटवीरूपां विहारप्रतिज्ञया गन्तुमभिसेधारयति इत्यग्रेण सम्बन्धः । कथमित्याह-'संति लाढे' सति लाढे विद्यमानेऽन्यस्मिन् देशे यत्र 'विहाराए' विहाराय विहारनिमित्तम् तपोनियमसंयमस्वाध्यायाद्यर्थम् 'संथरमाणेसु' संस्त्रियमाणेषु-आहारोपधिवसत्यादिना सुलभेषु निर्वाहयोग्येषु 'जणवएम' जनपदेषु सत्सु 'विहारवडियाए' विहारप्रतिज्ञयाविचरणभावनया 'अभिसंधारेइ' अभिसंधारयति-गन्तुं मनसि विचारयति, 'अभिसंधारेंत' अनेकदिवसगमनीयामटवीं विहारविचारणां कुर्वन्तम् श्रमणान्तरम् 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभाग भवतीति । अयं भावः-कथमनेकदिवसगमनीयमार्गे गमननिषेधः कृतस्तत्राहयत्र देशे गम्यमाने संयमात्मविराधनादयोऽनेके दोषाः प्रसज्येयुः, तपोनियमस्वाध्यायाचभावरूपा संयमविराधना, श्वापदादिहिंसकप्राणिभिरात्मविराधना च सम्भवतीत्यतोऽनेकदिवसगमनीयमार्गे गमनाय मुनिः मनस्यपि विचारं न कुर्यादिति ॥ सू० २३ ॥
શ્રી નિશીથ સૂત્ર