SearchBrowseAboutContactDonate
Page Preview
Page 458
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०१६ सू०१४-१८ व्युद्ग्रहव्युत्क्रान्तानामशनादिदानाऽऽदाननिषेधः ३६७ वसुराजिकम्-झानदर्शनचारित्राणामाराधकं 'वयई' वदति-कथयति स्नेहात् मोहाद्वा पोर्श्वस्थादिकमसाधुमपि अयं साधुरिति कथयति तथा 'वयंतं वा साइज्जई' वदन्तमन्यं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्य आज्ञाभङ्गादिदोषा अपि भवन्ति ॥सू० १२ ॥ सूत्रम्--जे भिक्खू वसुराइयगणाओ अवसुराइयगणं संकमइ संक मंतं वा साइज्जइ ॥ सू० १३॥ छाया-यो भिक्षुः वसुराजिकगणात् अवसुराजिकगणं संक्रामति संक्रामन्त वा स्वदते ॥सू०१३॥ चूर्णी--- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' य कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वसुराइयगणाओ' वसुराजिकगणात्-ज्ञानदर्शनचारित्रतपःसमाराधकाः वसुराजिकास्तेषां गणः- समुदायस्तस्मात् तादशसमुदायमध्यात् 'अवसुराइयगणं संकमइ' अवसुराजिकगणं संक्रामति-गच्छतिवसुराजिकानां गणम्-समुदायं परित्यज्य यः खलु मन्दमाग्यः अषसुराजिकानां गणं प्रति गच्छति तथा 'संकमंतं वा साइज्जइ' ज्ञानदर्शनचारित्राराधकानां गणं परित्यज्य ज्ञानायनाराधकपार्श्वस्थादिगणे संक्रामन्तं-गच्छन्तं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०१३ सूत्रम्--जे भिक्खू वुग्गहवुक्कंताणं असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ।। सू०१४ ॥ छाया-यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानामशनं वा पान वा खाद्यं वा स्वाधं वा ददाति ददतं वा स्वदते ॥ सू०१४॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबु कंताण' मुद्ग्रहव्युत्क्रान्तानाम् , तत्र व्युद्ग्रहोऽधिकरणं कलहः, तं कलहंकृत्वा ये व्युत्क्रान्ताःनिष्क्रान्तास्ते व्युद्ग्रहव्युत्क्रान्ताः, तेषां श्रमणानाम् व्युदहव्युत्क्रान्तेभ्यः श्रमणेभ्यः इत्यर्थः 'असणं वा' अशनं वा पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाधं वा 'देई' ददाति-समर्पयति यो हि श्रमणः श्रमणी वा कलहं कृत्वा स्वगणादवक्रान्तस्तस्मै चतुर्विधमाहारजातं समर्पयति तथा 'देंतं वा साइज्जई' ददतं वा कलहकारिणे अशनादिकं समर्पयन्तं श्रमणान्तरं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति ।। सू० १४॥ सूत्रम्--जे भिक्खू बुग्गहवुक्कंताणं असणं वा पाणं वा खाइमं वा साइमं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ।। सू०१५॥ छाया- यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानाम् अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० १५॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy