SearchBrowseAboutContactDonate
Page Preview
Page 457
Loading...
Download File
Download File
Page Text
________________ ३६६ निशीथसूत्रे नाम्-अरण्यगामिनाम् 'वणवयाण' वनव्रजानाम्, तत्र वनं प्रति, व्रजन्ति-वने गच्छन्ति ये ते वनव्रजाः, तेषां वनगामिनाम् आजीविकार्थम् अरण्ये वने वा गच्छतामित्यर्थः, 'अडविजत्तासंपतियाण' अटवीयात्रासंप्रस्थितानाम्-वनयात्राथै निर्गतानाम् , तत्र वनवृक्षाकुलं निर्जनं भयङ्करं वनमटवी कथ्यते, तत्सम्बन्धिनी यात्रा-गमनरूपा तदर्थ संप्रस्थितानां काष्ठादिहरणार्थ निर्गतानां तथा वनोपजीविनां काष्ठहारकाणां संबन्धि यो भिक्षुः 'असणं वा' अशनं वा-पाणं वा' पानं वा 'खाइमं वा' खाद्यं वा 'साइमं वा' स्वाचं वा 'पडिग्गाहेइ' प्रतिगृह्णाति-स्वीकरोति स्वीकारयति वा तथा पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा श्रमणान्तरम् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्ति यतो यो वनं गच्छति स तु परिमितमेवाशनादिकं स्वस्याभोक्तुं गृह्णातिद् यदि साधुम्रहीष्यति तदा स पुरुषः स्वकीयोदरपूरणे कष्टमनुभविष्यति तस्मादरण्यादौ गच्छतां वनोपजीविनां. सम्बन्धि यदशनादिकं तत् न गृह्णीयात् न वा ग्राहयेत् न वा गृह्णन्तमनुमोदयेदिति ॥ सू० १० ॥ सूत्रम्--जे भिक्खू वसुराइयं अवसुराइयं वयइ वयंतं वा साइ. ज्जइ ॥ सू० ११॥ छाया-यो भिक्षुर्वसुराजिकमवसुराजिकं वदति वदन्तं वा स्वदते ॥ सू० ११ ॥ __ चूर्णी-'जे भिक्ख' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वसुराइयं वसुराजिकम्-विशुद्धज्ञानदर्शनचारित्राराधकं दमितेन्द्रियं जैनदीपकस्वरूपम् , तत्र वसूनि रत्नानि पञ्चमहाव्रतरूपाणि ज्ञानदर्शनचारित्रतपांसि वा भावरत्नानि तैः राजते-शोभते यः स वसुराजिकः तथा चैतादृशं वसुराजिकं मुनि 'अवसुराइयं' अवसुराजिकम् - ज्ञानदर्शनचारित्रतपोभावरत्नरहितं-'वयई' वदति-कथयति अर्थात् ज्ञानदर्शनचारित्राराधकं मुनिवर्यम् 'नायं वसुराजिकः अपितु धूर्तो वञ्चको विराधितसंयममार्गः' इत्यादिक्रमेण निन्दां करोति, तथा 'वयंत वा साइज्जई' वदन्तं वा तादृशश्रमणान्तरं यः कश्चित् स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा अपि भवन्तीति ।। सू० ११ ॥ सूत्रम्--जे भिक्खू अवसुराइयं वसुराइयं वयइ वयं वा साइज्जइ ॥सू० १२॥ छाया-यो भिक्षुरवसुराजिकं वसुराजिकं वदति वदन्तं वा स्वदते ॥ सू० १२॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'अवसुराइयं' अवसुराजिकम् यः खलु ज्ञानदर्शनचारित्राणामनाराधकः श्रमणभिन्नः श्रमणसदशश्च केवलं वेषमात्रेण साधुसमानः ज्ञानदर्शनचारित्रात्मकरत्नरहितत्वात्, तमवसुराजिक पार्श्वस्थादिकम् 'वसुराइयं' શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy