________________
चूर्णिभाष्यावचूरिः उ० १६ सू ४ - १३ सचित्तेक्ष्वारण्यगभिक्षावसुराजिकविपर्ययनि० ३६५
अत्राह भाष्यकारः
सोदगागणियं सेज्जं खणिगं सव्वकालियं । पविसे तत्थ जो भिक्खू, आणाभंगाइ पावर ॥ | १ ||
छाया - सोदकाग्निकां शय्यां क्षणिकां सर्वकालिकाम् । प्रविशेत् तत्र यो भिक्षुः, आज्ञाभङ्गादि प्राप्नोति ||१||
अवचूरि : - ' सोदगागणियं' सोदकाग्निकाम् - सोदकां साग्निकां वा उदकसहितामग्निसहितां वा 'सेज्जं' शय्याम्, सा द्विविधा - क्षणिका - अल्पकालभाविनी. सर्वकालिका - सर्वकालभाविनी जलाशयरूपा इष्टिका पाकादिरूपा च तां द्विविधामपि शय्याम् - वसतिं प्रविशेत् यो भिक्षुः तिष्ठेत् स आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥ सू० ३ ॥
सूत्रम् - जे भिक्खु सचित्तं उच्छ्रं भुंजइ भुजंतं वा साइज्जइ ॥ सृ०४ ॥
छाया - यो भिक्षुः सचित्तमिभुं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ४ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सचित्तं उच्छु' सचित्तमिक्षुम् 'भुंजइ' भुङ्के तथा 'भुजंतं वा साइज्जइ' भुञ्जानं वा स्वदते - सचित्तेक्षुदण्डस्योपभोगं कुर्वाणं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभाग् भवति ।। सू०४ ||
सूत्रम् — एवं पण्णरसमे उद्दे से अंबस्स जहा गमो सो चेव इहंपि यव्वो । सू० ५ - ९॥
छाया - एवं पञ्चदशे उद्देशे आम्रस्य यथा गमः स एव इहापि ज्ञातव्यः ।। सू०५-९॥ चूर्णी - एवं - अनेनैव प्रकारेण यथा पञ्चदशोदेशके सचित्ताम्रफलभक्षणे गमः कथितः स एव गमो निरवशेषोऽत्रापि ज्ञातव्यः केवलाम्रफलस्थाने सचित्तमिक्षुमितिपदं निवेशनीयमिति । नवरम् ‘अंतरुच्छ्रयं' इति अन्तरिक्षुकम् - इक्षोरन्तर्भागव्यवस्थितमवयवविशेषम् । शेषं सूत्रपञ्चकं पञ्चदशी. देशकगताम्रसूत्रवद् व्याख्येयम् ॥ सू० ५-९ ॥
सूत्रम् -- जे भिक्खु आरण्णगाणं वणवयाणं अडविजत्तासंपट्टि - याणं असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेइ पडिग्गात वा साइज्जइ || सू० १० ॥
छाया यो भिक्षुररण्यगानां वनवजानाम् अठवीयात्रा संप्रस्थितानाम् अशनं वा पानं वा खाद्य वा स्वाद्यं वा प्रतिगृह्णाति, प्रतिगृह्णन्तं वा स्वदते ॥ सू० १० ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्द्रि भिक्षुः 'आरणगाणं' आरण्यगाणाम्, अरण्यम्-एकजातीयवृक्षसमूहात्मकं तदेव आरण्यम् तत्र गच्छन्तीति आरण्यगाः, तेषामाण्यगा
1
શ્રી નિશીથ સૂત્ર