SearchBrowseAboutContactDonate
Page Preview
Page 459
Loading...
Download File
Download File
Page Text
________________ ३६८ निशीथसूत्रे चूर्णी-'जे भिक्खू इत्यादि । यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'वुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्क्रान्तानां पूर्वोक्तस्वरूपाणां श्रमणानां श्रमणीनां वा संबन्धि तेभ्य इत्यर्थ 'असणं वा पाण वा खाइमं वा साइमं वा' अशनादिकं चतुर्विधम् 'पडिच्छइ' प्रतीच्छति-स्वीकरोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा स्वदते स प्रायश्चित्तभागी ववति ॥ सु० १५ ॥ सूत्रम्--जे भिक्खू वुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंवलं वा पायपोंछणगं वा देइ देंतं वा साइज्जइ ॥ सू० १६॥ छाया- यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानां वस्त्र वा प्रतिग्रहं वा कम्बलं वा पादप्रोग्छ नकं वा ददाति ददतं वा स्वदते ॥सू० १६ ॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः श्रमणः श्रमणी वा 'बुग्गहबु. कंताणं' व्युद्ग्रहव्युत्क्रान्तानाम्-श्रमणानां श्रमणीनां वा 'वर्थ वा' वस्त्रं वा-चोलपट्रप्रावरणादिकम् 'पडिग्गहं वा' प्रतिग्रहं वा-पात्रादिकम् 'कंबलं वा कम्बलं वा-ऊर्णामयम् 'पायपोंछणगं वा' पादप्रोञ्छनकं वा रजोहरणम् 'देइ' ददाति-समर्पयति तथा 'देंतं वा साइज्जइ' ददतं वा श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६ ॥ सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणगं वा पडिच्छइ पडिच्छंतं वा साइज्जइ ॥ सू० १७॥ छाया-यो भिक्षुर्युद्ग्रहव्युत्क्रान्तानां वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोग्छनकं वा प्रतीच्छति प्रतीच्छन्तं वा स्वदते ॥ सू० १७ ॥ चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वुग्गहवुक्कंताणं' व्युद्ग्रहव्युत्कान्तानाम् साधूनाम् सकाशात् 'वत्थं वा' वस्त्रं वा-चोलपट्टादिकम् 'पडिग्गरं वा' प्रतिग्रहं वा-पात्रादिकम् 'कंबलं वा' कम्बलं वा 'पायपोंछणगं वा' पादप्रोञ्छनक वा-एतानि वस्त्रादीनि यः 'पडिच्छई' प्रसीच्छति स्वीकरोति तथा 'पडिच्छंतं वा साइज्जई' प्रतीच्छन्तं वा-स्वीकुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १७ ॥ सूत्रम्-जे भिक्खू वुग्गहवुक्कंताणं वसहिं देइ देंतं वा साइज्जइ ॥ सू० १०॥ छाया-यो भिक्षुयुद्ग्रहव्युत्क्रान्तानां वसति ददाति-ददतं वा स्वदते ॥ सू० १८॥ चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'बुग्गहवुक्कंताणं' व्युद्ग्रहब्युत्क्रान्तानाम् 'वसहिं देइ' वसतिम्-उपाश्रये आश्रयं ददाति तथा देंतं वा साइज्जइ' ददतं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १८ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy