________________
॥ षोडशोद्देशकः ॥ व्याख्यातः पञ्चदशोदशेकः, साम्प्रतमवसरप्राप्तः षोडशोदशको व्याख्यायते, तत्र षोडशोदेशकादिसूत्रस्य पञ्चदशोदेशकान्तिमसूत्रेण सह कः सम्बन्ध इति चेत् अत्राह भाष्यकारः--
पुव्वंतंमि विभूसाए, पडिसेहो य वन्निओ ।
चरित्ते दोसभावाओ, एत्थ सेज्जा णिसिज्झइ ॥ छाया-पूर्वान्ते विभूषायाः प्रतिषेधश्च वर्णितः ।
चारित्रे हि दोषभावादत्र शय्या निषिद्धयते ॥ अवचूरिः-पूर्वान्ते-पूर्वस्य-एतदपेक्षया पूर्वस्य प्राक्कथितस्य पञ्चदशोदेशकस्यान्ते-चरमसूत्रे विभूषानिमित्तं-शोभार्थ पादादिप्रमार्जनादीनाम् तथा विभूषार्थ च उज्ज्वलोपधिधारणस्य प्रतिषेधः वर्णितः कथितः । कथं विभूषादीनां प्रतिषेधः कृतस्तत्राह-'चरित्ते' इत्यादि, चारित्रे दोषभावात्-दोषोत्पादकत्वात् उज्ज्वलोपधिधारणं शरीरविभूषादिकं च साक्षात् परम्परया वा चारित्रस्य विराधनकारणं तस्मात् कारणातू तस्य प्रतिषेधः कृतः, तत्सम्बन्धादत्र षोडशोदेशकेऽपि सागारिकशय्यायाः सागारिकवसतेः प्रतिषेध एव क्रियते सागारिकशय्याया अपि संयमविराधकत्वात् इति संयमविराधकत्वस्य उभयत्रापि समानत्वेन अयमेव सम्बन्धः पूर्वापरसूत्रयोः ।
पूर्वस्मिन् उद्देशके लघुचातुर्मासिकं प्रायश्चित्तं कथितम्, अत्रापि तदेव कथयिष्यते इति । तदनेन सम्बन्धेन आयातस्यास्य षोडशोदेशकस्येदमादिसूत्रम्
सूत्रम्--जे भिक्खू सागारियसेज्जं अणुप्पविसइ अणुप्पविसंतं वा साइज्जइ ॥ सू० १॥
छाया- यो भिक्षुः सागारिकशय्यामनुप्रविशति अनुप्रविशन्तं वा स्वदते ॥ सू०१॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'सागारियसेज्ज' सागारिकशय्याम्, तत्र सागारिकः गृहस्थः तस्य शय्या वसतिरिति सागारिकशय्या, शेते यस्यां सा शय्या-वसतिर्निवासस्थानम् यत्रावस्थानेन मैथुनभाव उद्भवति सा, सागारिकेत्येषा सामयिकी संज्ञा तेन सागारिकशय्येति दम्पत्योः शयनस्थानमित्यर्थः एतादृशं स्थानं यो भिक्षुः श्रमणः श्रमणी वा 'अणुप्पविसई' अनुप्रविशति ओदनादिग्रहणार्थं प्रवेशं करोति कारयति वा तथा-'अणुप्पविसंत वा साइज्जइ' अनुप्रविशन्तं वा स्त्रीपुरुषयोः शयनस्थाने प्रवेशं कुर्वन्तं श्रमणान्तरं स्वदते-अनुमोदते स दोषभागी भवति, एतादृशस्थाने शृङ्गारसामग्रीबाहुल्येन मनोविकृतेः संभवादिति ॥ सू० १ ॥
શ્રી નિશીથ સૂત્ર