________________
चूर्णिभाष्यावचूरिः उ• १६ सू० १-३ सागारिक-सोदक-साग्निकशय्याप्रवेशनिषेधः ३६३
अत्राह भाष्यकारः
सेज्जा दुविहा एत्थ य, दचे भावे तहा मुणेयव्वा ।
जं सहाणं दवे विसरिसरूवं तु भावम्मि ॥ छाया- शय्या द्विविधा अत्र च, द्रव्ये भावे तथा ज्ञातव्या ।
यत् स्वस्थान द्रव्ये विसदशरूपं तु भावे ॥ __ अवचूरिः-शय्या-सागारिकशय्या दम्पत्योर्निवासरूपा, सा अत्र च द्विविधा-द्विप्रकारिका द्रव्ये तथा भावे द्रव्यभावभेदात् ज्ञातव्या, सागारिकं द्विविधम् , तत्र यत् स्वस्थानं स्वसदृशरूपं तत् द्रव्ये. द्रव्यतः, यत् विसदृशरूपं स्वसादृश्यभिन्नं तद् भावे भावतो भवति । तत्र स्वसादृश्ये सागारिके मनोविकारा-संभवाद् द्रव्यत्वम्, विसदृशरूपे सागारिके मनोविकारबाहुल्याद् भावत्वमिति विवेकः । तथाहिद्रव्यभावसागारिक रूपे आभरणविधौ वस्त्रालङ्कारभोजनगन्धेषु तथा आतोद्यनृत्यनाट्यगीतशयनादिद्रव्येषु च भवति, तत्र रूपं नाम यत् काष्ठचित्रलेप्यकर्मणि पुरुषरूपं कृतं तत्, अथवा जीवरहितं पुरुषशरीरं तत् श्रमणानां कृते पुरुषरूपं स्वस्थानत्वात् द्रव्यसागारिकम् । एतादृशमेव पुरुषरूपं विसदृशत्वात् श्रमणीनां भावसागारिकं भवति । एवमेतेष्वेव काष्ठकर्मादिषु यत्र स्त्रीणां शरीरं तत् श्रमणीनां कृते द्रव्यसागारिकं साधूनां कृते तदेव शरीरं भावसागारिकम् । एवमाभरणं पुरुषोपभोग्यं तत् पुरुषाणां द्रव्यसागारिकं स्त्रीणां कृते भावसागारिकम्, तथा-स्त्रीणामुपभोग्यं यत् आभरणादिक तत्स्त्रीणां कृते द्रव्यसागारिकं, पुरुषाणां कृते भावसागारिकम् । एवं वस्त्रालंकारादिकं चतुःप्रकारकम् तत्पुरुषयोग्यं पुरुषाणां द्रव्यसागारिकं स्रीणां भावसागारिकम् । यत्पुनवस्त्रालङ्कारादिकं स्त्रीणां योग्यं तत् स्त्रीणां द्रव्यसागारिकं पुरुषाणां कृते तदेव भावसागारिकम् । एवं भोजनम्, अशनपानखाद्यस्वाद्यभेदेन चतुर्विधम्, तदपि पुरुषोपभोगयोग्यं पुरुषाणां द्रव्यसागारिकं, स्त्रीणां कृते भावसागारिकम्, यत् पुनः स्त्रीणामुपभोगयोग्यम् अशनादिकं तत्स्त्रीणां कृते द्रव्यसागारिकं तदेव पुरुषाणां कृते भावसागारिकम् । एवं गन्धेऽपि, तत्र गन्धः-कोष्ठपुटकादिः, तत्र यो गन्धः पुरुषोपभोगयोग्यः स श्रमणानां द्रव्यसागारिकम्, स एव गन्धः श्रमणीनां भावसागारिकम्, यश्च गन्धः स्त्रीणामुपभोगयोग्यः स स्त्रीणां द्रव्यसागारिकं, श्रमणानां स एव भावसागारिकम् । एवमातोये, तत्रातोद्यं चतुर्विधम्, ततम् १, विततम् २, घनम् ३, शुषिरं च ४, तत्र यत् आतो, पुरुषसाध्यं पुरुषयोग्यं तत् श्रमणानां द्रव्यसागरिकं, श्रमणीनां भावसागारिकम्, यत् पुनरातोद्यं स्त्रीसाध्यं स्त्रीयोग्यम् तत् श्रमणीनां द्रव्यसागारिकं श्रमणानां भावसागारिकम् । एवं नृत्येऽपि, तत्र नृत्यं चतुर्विधम्-अञ्चितम् १, रिभितम् २, आरभटम् ३, भसोलं च ४, तत्र यत् नृत्यं पुरुषसंपादनीयं तत् श्रमणानां द्रव्यसागारिकं श्रमणीनां भावसागारिकम् , यत् पुनर्नृत्यं स्त्रीभिः सम्पादनीयम् तत् श्रमणीनां द्रव्यसागारिकं श्रमणानां भावसागारिकम् , इति ।
શ્રી નિશીથ સૂત્ર