________________
चूर्णिभाष्यावचूरिः उ० १५ सू० -१६३
उद्देशकपारसमाप्तिः ३६१ छाया- यो भिक्षुर्विभूषाप्रत्ययेन वस्त्र वा यावत् पादप्रोञ्छनकं वा अन्यतमं वा उपकरणजातं धावति धावन्तं वा स्वदते ॥ सू० १६२ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः-श्रमणः श्रमणी वा वस्त्रादिकमन्यतमं वा उपकरणजातम् 'विभूसावडियाए' विभूषाप्रत्ययेन शोभानिमित्तं धावति-प्रक्षालयति, धावन्तमन्यमुनि वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० १६२ ।।
किं प्रायश्चित्तं प्राप्नोतीत्याह-'तं सेवमाणे' इत्यादि ।
सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥सू० १६३॥
॥णिसीहज्झयणे पणरसमो उद्देसो समत्तो ॥१५॥ छाया-तत्सेवमान आपद्यते चातुर्मासिकं परिहारस्थानम् उद्घातिकम् |सू० ६३॥
॥ निशीथाध्ययने पञ्चदशोद्देशकः समाप्तः ॥ १५ ॥ ची- 'तं सेवमाणे' इत्यादि । 'त' तत् उद्देशकादित आरभ्य शोभार्थवस्त्रधावनपर्यन्तपापस्थानमध्यात् यत् किमपि एकमनेकं वा पापस्थानम् 'सेवमाणे' सेवमानः--प्रतिसेवनां कर्वन श्रमणः श्रमणी वा 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारट्राणं' परिहारस्थानम् प्रायश्चित्तम् 'उग्घाइयं' उद्घातिकम्-लघुचातुर्मासिकं प्रायश्चित्तं तस्य भवतीति ॥ सू० १६३॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक-पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् पञ्चदशोदेशकः समाप्तः ॥१५॥
શ્રી નિશીથ સૂત્ર