________________
निशीथसूत्रे
सूत्रम् -- एवं तइयउद्दे सगमओ जा व जे भिक्खू गामाणुगामं दूइज्जमाणे विभूसावडियाए अप्पणी सीसदुवारियं करेइ करंतं वा साइ ज्जइ ॥ सू० १०६–१६०॥
३६०
छाया - एवं तृतीयोद्देशगमको यावद् यो भिक्षुः ग्रामानुग्रामं द्रवन् विभूषाप्रत्य येन आत्मनः शीर्षदौवारिकं करोति, कुर्वन्तं वा स्वदते ॥ सू० १०६ - १६० ।।
चूर्णी - ' एवं तइय उद्देसगमओ' इत्यादि । एवम् अनेनैव प्रकारेण 'तदयउद्देसगमओ' तृतीयोद्देशगमकः-तृतीयोदेशकगतषट्पञ्चाशत्सूत्रात्मक सन्दर्भ कथितानि पादामार्जन सूत्रात् षोडशरूपादारभ्य 'जाव' यावत् 'जे भिक्खू गामाणुगामं' इत्येकसप्ततिसूत्रपर्यन्तसूत्राणि अग्रे संग्राह्याणि, तत्रत्यान्तिमसूत्रमेवं पठनीयम्, तथाहि - 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा ‘गामाणुगामं' ग्रामानुग्रामम् एकस्माद् ग्रामाद् अनुपदं द्वितोयं ग्रामम् ' दुइज्जमाणे ' द्रवन् विहरन् 'विभूसाबडियाए' विभूषाप्रत्ययेन विभूषानिमित्तं शोभार्थं तत्संपादनबुद्धयेत्यर्थः 'अप्पणी' आत्मनः स्वस्य उपरि 'सीसदुवारिय' शीर्षदौवारिकां शीर्षावरण छत्राकारेण शीर्षस्थगनम् 'करेइ करेंतं वा साइज्ज' करोति कुर्वन्तं वा स्वदते अनुमोदते स दोषभाग् भवतीति । एषां व्याख्या - Sपि विभूषाप्रत्ययपदं संयोज्य तत्रैव द्रष्टव्या । विशेषः केवलमयम् - यत् तत्र पादादीनां सामान्यतया प्रमार्जनादिकं कथितम् अत्र तु विभूषानिमित्तं प्रमार्जनादिकं वक्तव्यम् ।। सू० १०६-१६०।
सूत्रम् - जे भिक्खू विभूसावडिया ए वत्थं वा पडिग्गहं वा कंबलं वा पायपुच्छणं वा अण्णय रं वा उवगरणजायं धरेइ धरंतं वा साइज्जइ ॥
छाया -यो भिक्षुः विभूषाप्रत्ययेन वस्त्रं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा अन्यतमं वा उपकरणजातं धरति धरन्तं वा स्वदते ॥ सू० १६१ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यो भिक्षुः श्रमणः श्रमणी वा 'विभूसावडियाए' विभूषाप्रत्ययेन- विभूषानिमित्तेन सौन्दर्यमाश्रित्य शोभार्थमित्यर्थः, 'वत्थं वा 'पडिग्गहं वा' प्रतिग्रहं - पात्र वा 'कंबलं वा' कम्बलमूर्णावस्त्रं वा 'पायपुच्छणं वा' पादप्रोञ्छनं वा - पादरजः शोधकं वस्त्रखण्डं रजोहरण वा 'अण्णयरं वा उवगरणजायं एतदतिरिक्तं यत्किञ्चिदन्यतममुपकरणजातम् ' धरेइ धरतं वा साइज्जइ' धरति गृह्णाति धरन्तं वा स्वदते वस्त्रपात्रादिकमिदं सुन्दरमिदमसुन्दरमिति कृत्वा स्वशोभा वृद्धिबुद्धया सुन्दरं सुन्दरवस्त्रपात्रादिकं धरति धरन्तं वाऽन्यमुनिमनुमोदते स प्रायश्चित्तभागी भवतीति । सू० १६१ ॥
सूत्रम् - जे भिक्खू विभूसावडियाए वत्थं वा जाव पायपुंछणं वा अण्णयरं वा उवगरणजायं धोवेइ धोवंतं वा साइज्जइ ॥ सू० १६२ ॥
શ્રી નિશીથ સૂત્ર