________________
चूर्णिभाष्यावचूरिः उ०१५सू०१०४-१६१विभूषाबुद्धया पादप्रमार्जनादिवस्त्रादिधारणनि० ३५९
चूर्णों-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'जायणावत्थं वा याचनावस्त्रं वा यद् याचनेन प्राप्यते तत् तथा 'निमंतणावत्यं वा निमन्त्रणावस्त्रं वा यत् निमन्त्रणापूर्वकं प्राप्यते तत्, एतद् द्विविधमपि वस्त्रं भिक्षुः 'अजाणिय' अज्ञात्वा कुत्रत आनीतम् , इत्यादि वस्रोत्पत्तिकारणम् अज्ञात्वा, तथा-'अपुच्छिय' अपृष्ट्वा- तद्विषये पृच्छामकृत्वा कस्येदम् , कथं वेदं वस्त्रमासीत् , इत्यादिक्रमेण पृच्छामकृत्वा, 'अगवेसिय' अगवेषयित्वा मदर्थमेवेदं वस्त्रमनेनानीतम् अन्याथै वाऽऽनीतम् , कया बुद्ध्या मह्यं ददातीत्यादिक्रमेण गवेषणामकृत्वैव याचनावस्त्रनिमन्त्रणावस्त्रमिति द्विविधमपि वस्त्रं साधुः 'पडिग्गाहेइ' प्रतिगृहाति-स्वीकरोति 'पडिग्गाहेंतं वा साइज्जई' प्रतिगृहन्तं वा अज्ञात्वा अपृष्ट्वा अगवेषयित्वा याचनानिमन्त्रणावस्त्रं प्रतिगृह्णन्तं श्रमणान्तरं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति । 'से य वत्थे' तच्च द्विविधमपि वस्त्रम् 'चउण्हमण्णयरे सिया' चतुर्णामन्यतमं स्यात् वक्ष्यमाणानां चतुर्णा वस्त्राणां मध्ये अन्यतमम् एकं स्यात् , 'तं जहा' तद्यथा-'णिच्चणिवसणिए १, मज्जणिए २, छणूसविए ३, रायदुवारिए ४, तत्र 'णिच्चणिवसणिए' नित्यनिवसनिकम्-यत् नित्यं परिधीयते तत् १, 'मज्जणिए' मज्जनिक-यत् स्नानावसरे परिधीयते तत् २, 'छणूसविए' क्षणोत्सविकम्-यत् विवाहाद्युत्सवे परिधीयते तत् ३, 'रायदुवारिए' राजदौवारिकम्-यत् राजद्वारे सभादौ वा गमनसमये परिधीयते तत् ४, एवं चतुर्विधं वस्त्रं भवति, एण्वन्यतमं याचनावस्त्रं निमन्त्रणावस्त्रं च अज्ञानाऽपृच्छनाऽगवेषणापूर्वकं यो भिक्षुः प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते स आज्ञाभङ्गादिदोषभाग् भवतीति ॥ सू० १०४ ॥
सूत्रम्-जे भिक्खू विभूसावडियाए अप्पणो पाए आमज्जेज्ज वा पमज्जेज्ज वा आमज्जंतं वा पमज्जंतं वा साइज्जइ ॥ सू० १०५॥
छाया-यो भिक्षुर्विभूषाप्रत्ययेन आत्मनः पादौ आमार्जयेद्वा, प्रमार्जयेद्वा आमाजयन्तं वा प्रमार्जयन्तं वा स्वदते ॥ सू० १०५ ॥
चूर्णी ---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'विभूसावडियाए, विभूषाप्रत्ययेन-विभूषानिमित्तेन सुकुमालतादिसंपादनाबुद्धयेत्यर्थः, 'अप्पणो पाए' आत्मनः स्वस्य पादौ चरणौ 'आमज्जेज्ज वा' आमार्जयेद्वा-तत्रामार्जनं धूल्यादीनाम् पृथक्करणम् , तत् कुर्याद्वा तथा- ‘पमज्जेज्ज वा' प्रमार्जयेद्वा- प्रतिदिनमनेकवारं चरणयोः प्रमार्जनं कुर्यात् कारयेद्वा । तथा-'आमज्जंतं वा' आमार्जयन्तं वा-एकवारमामार्जनं कुर्वन्तं कारयन्तं वा 'पमज्जतं वा' प्रमार्जयन्तं वा-प्रतिदिनमनेकवारं प्रमार्जनं कुर्वन्तं कारयन्तं वा श्रमणान्तरम् 'साइज्जई' स्वदतेअनुमोदते स प्रायश्चित्तभाग भवति ॥ सू० १०५ ।।
શ્રી નિશીથ સૂત્ર