________________
निशीथसूत्रे
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणो वा श्रमणी वा 'पासत्थस्स' पार्श्वस्थाय-पार्श्वे संयमस्य समीपे तिष्ठतीति पार्श्वस्थः न तु संयमस्थः, तस्मै 'असणं वा पाणं वा खाइ वा साइमं वा' अशनं वा पानं वा खाद्यं वा स्वाद्यं वा 'देइ' ददाति 'देतं वा ' ददतं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ||सू० ८० ॥ एवमेव पार्श्वस्थाय अशनादिकं 'पडिच्छ' प्रतीच्छति तत्पार्श्वात् गृह्णाति ||सू० ८१ ॥ एवं पार्श्वस्थाय 'वत्थं वा' वस्त्रं वा चोलपट्टादिकम् 'पडिग्गहं वा' प्रतिग्रहं वा पात्र' वा 'कंबलं वा' कम्बलं वा ऊर्णामयं, 'पायपुछणं वा ' पादप्रोञ्छनं वा पादप्रमार्ज नवस्त्रखण्डं वा ददाति० ॥ सू० ८२ ॥ एवं प्रतीच्छति गृह्णाति ॥ सू० ८३ ॥ एवं अशनादेर्दान --ग्रहणरूपं सूत्रद्वयम्, तथा वस्त्रादेर्दानग्रहणरूपं च सूत्रद्व यमिति सूत्रचतुष्टयम् अवसन्नविषयकम् ॥ सु० ८७|| कुशीलविषयकम् ॥ सू० ९९ ॥ यथाच्छन्दविषयकम् ॥सू० ९५|| संसक्तविषयकम् ॥ सु० ९९|| एवं नैत्यिकविषयकमपि सूत्र चतुष्टयम् ॥ सू० १०३ ॥ एतानि चतुर्विंशतिसूत्राणि त्रयोदशोदेशकोक्तसूत्रव्याख्या नवद् व्याख्येयानि, विशेषस्त्वेतावानेव यत्-तत्र वन्दन - प्रशंसनविषयाणि सूत्राणि सन्ति, अत्र तु अशनादीनां वस्त्रादीनां च दान- ग्रहणविषयाणि वाच्यानीति ॥
३५८
अत्राह भाष्यकारः
पासत्याओ समारम्भ, णितियंतस्स साहुणी । देतो जो पडिगिण्हंतोऽसणाई दोसभा भवे ॥ छाया - पावस्थात् समारभ्य नैत्यिकान्ताय साधवे ।
ददन् यः प्रतिगृह्णन् अशनादि दोषभाग् भवेत् ॥
अवचूरि : - यो भिक्षुः श्रमणः श्रमणी वा पार्श्वस्थात् समारभ्य नैत्यिकान्ताय साधवे पार्श्वस्थावसन्न-कुशील-यथाछन्द-संसक्त - नैत्यिकेभ्य इत्यर्थः योऽशनादिकम् - अशनपानादिकं ददन् प्रतिगृह्णन् वा, तथा पार्श्वस्थादिभ्योऽशनादिकं ददतः स्वीकुर्वतश्चानुमोदकः स यतिः दोषभाग् भवेत् ॥ सू० १०३ ॥
सूत्रम् - जे भिक्खु जायणावत्थं वा निमंतणावत्थं वा अजाणिय अपुच्छिय अगवेसिय पडिग्गाइ | पडिग्गार्हतं वा साइज्जइ । सेय वत्थे चउण्हण्णय रे सिया तंजहा - णिच्चनिवसणिए १ मज्जणिए २ छणूसविए ३ रायदुवारिए ४ ॥ सू० १०४ ॥
छाया - यो भिक्षुर्याचनावस्त्र वा निमन्त्रणावस्त्र वा अज्ञात्वा अपृष्ट्रा अगवेपयित्वा प्रतिगृह्णाति प्रतिगृह्णन्तं वा स्वदते । तच्च वस्त्र चतुर्णामन्यतमं स्यात् तद्यथानित्यनिवसनिकम् १ मज्जनिकम् २ क्षणौत्सविकम् ३ राजदौवारिकम् ४ ॥ सू० १०४ ॥
શ્રી નિશીથ સૂત્ર