________________
चूर्णि० उ०१५ सू० ७८-१०३ गृहस्थपार्श्वस्थादेरशनादिदानाऽऽदाननि० ३५७
अवचूरिः-आगन्तुकादिस्थानेषु आगन्त्रागारेषु इत्यारभ्य 'महागिहंसि' एतत्सूत्रपर्यन्तकथितस्यानेषु उच्चारप्रस्रवणं यो यतिः परिष्ठपयति परिष्ठापयन्तं वा अनुमोदते स भिक्षुः आज्ञाभङ्गादिकं दोषजातं प्राप्नोति, तथा--महदयशोऽपि जायते 'अशुच्याचारा एते साधवो हि शुचीनि भोगोपभोगस्थानानि अशुचीनि कुर्वाणा विहरन्ति, ततश्च लोकापवादेन प्रवचनहानिरपि स्यात् , तस्मात् आगन्तुकागारादिषु उच्चारप्रस्रवणयोः परिष्ठापनं न कुर्यात् न वा कारयेत् न वा कुर्वन्तमनुमोदयेदिति ॥ सू० ७७ ।।
सूत्रम्--जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ॥ सू०७८॥
__छाया-यो भिक्षुः अन्ययूथिकाय वा गृहस्थाय वा अशनं वा पानं वा खाद्य वा स्वाद्यं वा ददाति ददतं वा स्वदते ॥सु० ७८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्स' अन्यूथिकाय तापसाय वा 'गारत्थियस्स वा' गृहस्थाय वा अशनादिकं ददाति ददतं वा स्वदते स प्रायश्चित्तभागी भवतीति ॥सू० ७८||
सूत्रम्-जे भिक्खू अण्णउत्थियस्स वा गारत्थियस्स वा वत्थं वा पडिग्गहं वा कंबलं वा पायपुंछणं वा देइ देंतं वा साइज्जइ ॥
छाया-यो भिक्षुरन्ययूथिकाय वा गार्हस्थिकाय वा वनं वा प्रतिग्रहं वा कम्बलं वा पादप्रोञ्छनं वा ददाति ददतं वा स्वदते ॥सू० ७९॥
चूणी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियस्सा वा' अन्ययूथिकाय वा तापसपरिव्राजकायेत्यर्थः 'गारत्थियस्स वा' गार्हस्थिकाय गृहस्थाय वा 'वत्थं वा' वस्त्र वा-चोलपट्टकमुत्तरीयवस्त्रादिकं अन्यदपि वस्त्रजातं वा 'पडिग्गह वा' प्रतिग्रहं पात्रमलाबुकं मृत्तिकापात्रं वा 'कंवलं वा' कम्बलमूर्णावस्त्रादिकं वा 'पायपुछणं वा' पादप्रोञ्छनं रजोहरणं वा 'देई' ददाति 'देंतं वा साइज्जइ' ददतम् वस्त्रपात्रादिकं प्रयच्छन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ७९।।
सूत्रम्-जे भिक्खू पासत्थस्स असणं वा पाणं वा खाइमं वा साइमं वा देइ देंतं वा साइज्जइ ॥ सू० ८०॥
छाया-यो भिक्षुः पार्श्वस्थाय अशनं वा पानं वा खाद्य वा स्वाद्य वा ददाति ददतं वा स्वदते ॥ सू० ८०॥
શ્રી નિશીથ સૂત્ર