SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १५ मू० १-१२ आगाढादिवचन सचित्ताम्रपरिभोगनिषेधः ३४९ छाया- आगाढं परुषं वाक्यं दशमे खलु वर्णितम् । तदेवात्राषि ज्ञातव्यं नवरं भिक्षुकं प्रति ॥ अवचूरिः---आगाई परुषं वाक्यम् , आगाढपरुषतदुभयाऽऽशातनादीनां स्वरूपम् यदेव दशमोद्देशके वर्णितम् तदेव अत्रापि ज्ञातव्यम् यत् पूर्वमुक्तं तदेव पुनरत्र प्रदर्शितम् किन्तु 'नवरं' इत्यादि, नवरम् एतावान् मेदः दशमपञ्चदशोदेशकयोर्भवति यत्-दशमोदेशके आचार्यपर्यायज्येष्ठं प्रति आगाढवचनादेः प्रयोगकरणनिषेधो दर्शितः, अत्र पञ्चदशोद्देशके तु भिक्षुक-सामान्यश्रमणं प्रति आगाढादीनां निषेधो दर्शितः, तादृशप्रयोगकरणे च प्रायश्चित्तादिकं कथितमित्ययं भेदः ॥ सू० ४ ॥ सूत्रम्-जे भिक्खू सचित्तं अंबं भुंजइ भुजंतं वा साइज्जइ ॥ सू० ५॥ छाया-यो भिक्षुः सचित्तम् आनं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ५॥ चर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः 'सचित्तं अंब' सचित्तमानम् तत्र चित्तं-जीवः तेन जीवेन सह वर्तते इति सचित्तं-सजीवम् आम्रफलम् 'भुंजई' भुङ्क्ते--अभ्यवहरति तथा 'भुजंतं वा साइज्जई' भुञ्जानं वा स्वदते-अनुमोदते स प्रायश्चित्त. भागी भवति ॥ सू० ५ ॥ सूत्रम्-जे भिक्खू सचित्तं अंबं विडंसइ विडंसंतं वा साइज्जइ ॥सू०६॥ छाया-यो भिक्षुः सचित्तमानं विदशति विदशन्तं वा स्वदते ॥सू०६॥ चूर्णी -'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद्भिक्षुः ‘सचित्तं अंब' सचित्तं सजीवमानम् 'विडंसइ' विदशति-चूषति भक्षयति वा 'विडंसंतं वा साइज्जइ' विदशन्तं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०६॥ सूत्रम्--जे भिक्खू सचित्तं अंबं वा अंबपेसियं वा अंबभित्तं वा अंवसालगं वा अंबचोयगं वा भुंजइ भुंजतं वा साइज्जइ ॥ सू०७॥ छाया-यो भिक्षुः सचित्तमानं वा आम्रपेशिकां वा आम्रभित्तं वा आम्रसालक वा आम्रचोयगं वा भुङ्क्ते भुज्जान वा स्वदते ॥सू.७॥ चूर्णी-- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'सचित्तं अंबं वा' सचित्तमानं वा सजीवमाम्रफलमित्यर्थः 'अंवपेसियं वा' आम्रपेशिकां वा सचित्तामाम्रपेशीम् , तत्र पेशी दीर्घाकाराम्रफलस्यावयवलक्षणा तादृशीम् आम्रफलपेशीम्, 'अंबभित्तं वा' आम्रभित्तं वा तत्र भित्तम्-खण्डः आम्रफलस्यार्द्धभाग इत्यर्थः तत् 'अवसालगं वा' आम्रसालकं वा, तत्र-बाह्या छल्ली सालमिति कथ्यते 'अंबचोयगं वा' आम्रचोयगं वा तत्र-चोयगम् - आन्तरत्वचा तत् 'भुंजई' भुङ्क्ते स प्रायश्चित्तभागी भवति ॥ सू० ७॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy