________________
३४८
निशीथसूत्रे चनमित्यर्थः एवंभूतं वचनं भाषते, तथा 'वयंतं वा साइज्जइ' वदन्तं वा श्रमणमाक्रोशवचनं स्वदतेअनुमोदते स प्रायश्चित्तभागी भवति । एतत्सूत्रस्य विशेषतो व्याख्यानमत्रैव दशमोद्देशके द्रष्टव्यम्, एताकान् विशेष:-यत् दशमोदेशके आचार्य पर्यायज्येष्ठं वा प्रति आक्रोशवचनस्य प्रतिषेधः कृतः, अत्र तु भिक्षुकमात्रं प्रति आक्रोशवचनस्य निषेधः क्रियते ॥ सू० १ ।। सूत्रम्--जे भिक्खु भिक्खूणं फरुसं वयइ वयंत वा साइज्जइ ॥सू० २॥ छाया--यो भिक्षुर्भिक्षणां परुषं वदति वदन्तं वा स्वदते ॥ सू० २ ॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षुणाम् 'फरुसं क्यई' परुषं वदति, तत्र परुषं-कठोरं वाक्यं भाषते तथा 'वयंतं वा साइज्जई' वदन्तम् कठोरखाक्यं भाषमाणं स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० २ ।।
सूत्रम्--जे भिक्खू भिक्खूणं आगाढफरसं वयइ वयं वा साइज्जइ ॥ सू० ३॥
छाया-यो भिक्षुर्भिक्षणाम् आगाढपरुष वदति वदन्तं वा स्वदते ॥ सू० ३ ॥
चूर्णी---'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षू. णाम् 'आगाढफरुसं वयई' आगाढपरुषं वदति, तत्र आगाढम्-आक्रोशवचनं-मर्मोद्घाटनपूर्वकमुच्चैः सक्रोधं परुषं वाक्यं वदति -आक्षेपं करोति, तथा 'वयंत वा साइज्जइ' वदन्तं वा स्वदते स प्रायश्चित्तभागी भवति । दशमोदेशस्यादौ एव अस्य व्याख्यानं कृतं तत एव दष्टव्यमिति ॥ सू० ३ ॥
सूत्रम्-जे भिक्खू भिक्खूणं अण्णयरीए अच्चासायणाए अच्चासाएइ, अच्चासाएंतं वा साइज्जइ ॥सू० ४॥
छाया-यो भिक्षुर्भिक्षूणाम् अन्यतरया अत्याशातनया अत्याशातयति अत्याशातयन्तं वा स्वदते ॥ सू० ४ ॥
__ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खू णं' भिक्षूणाम् 'अण्णयरीए' अन्यतरया--अनेकप्रकारकाशातनामध्याद् एकया कयाचित् 'अच्चासायणाए' अत्याशातन या 'अच्चासाएइ' अत्याशातयति-आज्ञातनां करोति, तथा 'अच्चासाएंतं वा साइज्जई' अत्याशातयन्तम्-आशातनां कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥
अत्राह भाष्यकारः---- भाष्यम्---आगाढं फरुसं वक्कं, दसमे खलु वन्नियं ।
तं चेवेत्थवि णायचे, नवरं भिक्खुयं पइ ।।
શ્રી નિશીથ સૂત્ર