________________
॥ पञ्चदशोद्देशकः ॥ गतश्चतुर्दशोद्देशकः, सम्प्रति अवसरप्राप्तः पञ्चदशोद्देशकः प्रारभ्यते । तत्र पूर्वोक्तचतुर्दशोद्देशकेन सहास्य पञ्चदशोद्देशकस्य सम्बन्धः प्रदर्श्यते--चतुर्दशोदेशकस्यान्तिमसूत्रे प्रोक्तम् साधुःप्रतिग्रहनिश्रया वर्षावासं न वसेत् , इति, एवं प्रतिग्रहनिश्रया वसन्तं साधुं यदि कोज्यः साधु रेवं करणे प्रतिषेधयेत् तदा तं प्रति स क्रोधावेशेन परुषं वदिष्यतीत्यत्र पञ्चदशोद्देशके परुषभापाया निषेधः करिष्यते, इति सम्बन्धेनाह भाष्यकारः- 'ण मे णिरट्टगो' इत्यादि । भाष्यम् –ण मे जिरहगो वासो, वल्ली रूढफलाहुणा ।
एवं वयंतं समणं, अज्जो ! मेवं वयाहि भो ॥१॥ छाया--न मे निरर्थको वासो वल्ली रूढफलाऽधुना ।
एवं वदन्तं श्रमणं आर्य ! मैवं वद भोः ॥१॥ अवचरिः-कश्चित् श्रमणश्चतुर्मासकरणाथ कुत्रचित् क्षेत्रे वर्षावासनिवासं कृतवान्, तत्र पात्रार्थ वसन् एकां तुम्बिकालतां पश्यन् एवं वदति-अहो अत्र क्षेत्रे मम वासो न निरर्थको जातः, किन्तु सफल एव, यस्मात्कारणात् एषा पुरतो दृश्यमाना तुम्बिकावल्ली समुत्पन्ना न केवलं समुत्पन्नैव किन्तु क्रमशो वृद्धिंगता सती भित्त्यादौ आश्रये प्रसरति, पत्रादिकमपि अस्यां वल्ल्यां पर्याप्तं जातम् , न केवलं पत्राणामेवाऽऽधिक्यम् किन्तु पुष्पप्राचुर्यमपि जातम् , न केवलं पुष्पाणामेव प्राचुर्यम् अपि तु फलान्यपि अनेकानि जातानि, न केवलं फलान्येव संजातानि, किन्तु कतिपयफलानि पकानि संजातानि, अतः परं तुम्बिकायाः फलानि मे पात्राणि भविष्यन्ति यदर्थ ममात्र वासो जातस्तत्कार्य मे विनैव परिश्रमं भविष्यति, अनुकूलं मदीयभाग्यम् , एवंप्रकारेण हर्षातिरेकाद् वदन्तं श्रमणं दृष्ट्वा कोऽपि तत्समीपवर्ती श्रमणः तं श्रमणं प्रति वदति-हे आर्य ! श्रमण ! मैवं त्वं वद, एवं वदतस्ते महान् कर्मबन्धो भविष्यति, ततः स श्रमणः प्रतिषेधेनारुष्टोऽसौ तं प्रति कठोरवचनं वदेत् , तादृशकठोरवचनस्य प्रतिषेधाय पञ्चदशोदेशकसूत्रमिदमारभ्यते, अयमेव सम्बन्धः पूर्वापरसूत्रयोर्भवति, तदनेन सम्बन्धेन आयातस्यास्य पञ्चदशोदेशीयप्रथमसूत्रस्य व्याख्यानं प्रस्तूयते-'जे भिक्खू' इत्यादि ।
सूत्रम्-जे भिक्खू भिक्खूणं आगाढं वयइ वयंतं वा साइज्जइ॥सू०१॥
छाया---यो भिक्षुर्भिक्षणाम् आगाढं वदति वदन्तं वा स्वदते ॥ सू० १॥
चूर्णी-'जे भिक्खू' इत्यादि । जे भिक्खू' यः कश्चिद् भिक्षुः 'भिक्खूणं' भिक्षूणां-प्रेरकभिक्षणां 'आगाढं वयई' आगाई वदति-तत्र अत्यर्थ गाढम् आगाढम्-उच्चैर्वचनम् उच्चैराक्रोशव
શ્રી નિશીથ સૂત્ર