________________
निशीथचे
अत्राह भाग्यकारः-- भाष्यम्-उडुबद्धे मासं वा, चाउम्मासं तहेव य ।
पडिग्गहत्थं जे भिक्खू, वसइ दोसभा भवे ॥ छाया-- ऋतुबद्ध मासं वा चातुर्मासं तथैव च ।
__प्रतिग्रहार्थ यो भिक्षुर्वसति दोषभाग भवेत् ॥
अवचूरिः- यो भिक्षुः प्रतिग्रहाशया ऋतुबद्धे काले हेमन्तग्रीष्मादिसमये मासं मासकल्पं वसति निवासं करोति तथैव तेनैव प्रकारेण चतुर्मासं वसति निवासं करोति प्रतिग्रहाशया तदा तादृश निवासं कुर्वन् भिक्षुः दोषभाग आज्ञाभङ्गादिदोषभाग् भवति ॥ सू० ५९॥ सूत्रम्-तं सेवमाणे आवज्जइ चाउम्मासियं परिहारट्ठाणं उग्घाइयं ॥
॥णिसीहज्झयणे चउद्दसमो उद्देसो समत्तो ॥१४॥ छाया-तत्सेबमान आपद्यते चातुर्मासिकं परिहारस्थानमुद्घातिकम् ।। सू० ४९ ॥
॥ निशीथाध्ययने चतुर्दश उद्देशकः समाप्तः ॥ १४ ॥ चूर्णी-तं सेवमाणे' इत्यादि । 'त सेवमाणे' तत् 'पडिग्गहं किणइ' इत्यारभ्य 'पडिग्गाहनीसाए वासावासं' इति पर्यन्तं स्थान प्रतिसेवमानः प्रतिसेवनां कुर्वाणः श्रमणः श्रमणी वा 'आवज्जई' आपद्यते प्राप्नोति 'चाउम्मासियं' चातुर्मासिकम् 'परिहारहाणं' परिहारस्थानम् 'उग्घाइयं' उद्घातिकं लघुकम लघुचातुर्मासिकं प्राप्नोति ॥ सू० ६०॥ इति श्री-विश्वविख्यात-जगद्वल्लभ-प्रसिद्धवाचक- पञ्चदशभाषाकलितललितकलापालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक-वादिमानमर्दक-श्रीशाहूछत्रपतिकोल्हापुरराजप्रदत्त"जैनशास्त्राचार्य"-पदभूषित-कोल्हापुरराजगुरु-बालब्रह्मचारि-जैनाचार्य-जैनधर्मदिवाकर-पूज्यश्री-घासीलालबति-विरचितायां "निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् चतुर्दशोदेशकः समाप्तः ॥१४॥
શ્રી નિશીથ સૂત્ર