________________
३४४
निशीथसूत्रे भाष्यम्-अणायगं णायगं वा, गामे मग्गेऽहवा जई ।
___ ओभास्स जायई पत्तं, आणाभंगाइ पावई ॥ छाया--अज्ञातकं ज्ञातकं वा ग्रामे मार्गेऽथवा यतिः ।
___ अवभाष्य याचते पात्रमाज्ञाभङ्गादि प्राप्नोति ॥
अवचूरिः- यो यतिः श्रमणः श्रमणी वा ग्राममध्ये ग्राममार्गे ग्राममध्यवर्तिमार्ग वा ग्रामद्वयमध्यवर्तिमार्गमध्ये इत्यर्थः अज्ञातकम् ज्ञातकं श्रावकमश्रावकं वा अवभाष्य उच्चैः स्वरेण कथयित्वा कथयित्वा याचते स यतिः श्रमणः श्रमणी वा आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्व संयमविराधनात्मविराधनादोषान् प्राप्नुयात् तस्मात्कारणात् श्रमणः श्रमणी वा ग्रामस्य मार्गमध्ये अन्यत्र वा मार्गमध्ये स्वजनास्वजनादिकं श्रावकमश्रावकं वा अवभाष्य पात्रादिकं न याचेत न वा याचमानं श्रमणान्तरं कथमपि कदाचिदप्यनुमोदयेत् इति ॥ सू० ५६॥
सूत्रम्--जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासंग वा परिसामज्झओ उट्ठवेत्ता पडिग्गहं ओभासिय ओभासिय जायइ जायंतं वा साइज्जइ ॥सू० ५७॥
छाया- यो भिक्षुञ्जतकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा परिषन्मध्यात् उत्थाप्य प्रतिग्रहमवभाष्यावभाष्य याचते याचमानं वा स्वदते ।। सू० ५७ ।।
चूर्णिः----'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः ‘णायगं वा' ज्ञातकं वा 'अणायगं वा' अज्ञातकं वा 'उवासगं वा' उपासकं श्रावकं वा 'अणुवासगं वा' अनुपासके श्रावकभिन्नं वा ये कमपि व्यक्तिविशेषम् 'परिसामज्झओ उद्ववेत्ता' परिषन्मध्यात् उत्थाप्य, तत्र परिषत् सभा, तन्मध्यात् उत्थाप्य 'पडिग्गहं' प्रतिग्रहं पात्रम् ओभासिय 'ओभासिय' अवभाष्यावभाष्य मिष्टमनोज्ञादिवचनं वा कथयित्वा कथयित्वा 'जायइ' याचते 'जायंत वा साइज्जई' याचमानं वा स्वदते-अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम्--णायगाई सभामज्झा, उहाविय जई जइ ।
जायई पत्तवत्थाई, आणाभंगाइ पावई ॥ छाया-ज्ञातकादिकं सभामध्यादुत्थाप्य यतिर्यदि।
__ याचते वस्त्रपात्रादीन् आज्ञाभङ्गादि प्राप्नोति ॥
अवचूरिः-यदि कदाचित् सभा परिषत् तन्मध्यात् उत्थाप्य ज्ञातकादिकं स्वजनमस्वजनं वा श्रवकमश्रावकं वा पात्रवस्त्रादीन् याचते प्रार्थयते तदा आज्ञाभङ्गादिकान् दोषान् प्राप्नुयात् तस्मात् तथा न कुर्यात् , न वा तथाकुर्वन्तमनुमोदयेदिति । सभात उत्थाप्य स्वजनादिना वार्तालापकरणे
શ્રી નિશીથ સૂત્ર