________________
चूर्णिभाष्यावचूरिः उ.१४ सू०५५-५७ पात्रस्य कोरण-मार्गसभागतज्ञातकादियाचननि० ३४३ सूत्रम् ॥ सू० ५३ । एवं त्रसप्राणजात कुन्थुपिपीलिकादिकं तद्विषयकमपि सूत्रं विज्ञेयं व्याख्येयं च ॥ सू० ५४||
सूत्रम्- भिक्खू पडिग्गहं कोरेइ कोरावेइ कोरियं आहटुदिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ ।। सू० ५५॥
__छाया–यो भिक्षुः प्रतिग्रहं कोरयति कोरावयति कोरितमाहृत्य दीयमानं प्रतिगृसाति प्रतिगृह्यन्तं वा स्वदते ॥ सू० ५५ ॥
चूर्णिः-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'पडिग्गहं' प्रतिग्रहं पात्रम् 'कोरेइ' कोरेइ इति देशीशब्दोऽयम तदर्थस्तु सूक्ष्मच्छिदैश्चित्रयति अर्थात् यो भिक्षुः पात्रस्य मुखादिकं विच्छित्य स्वयं सम्पादयति चित्रादिकं च पात्रे स्वयं करोति 'कोरावेइ' कोरावयति चित्रयति अन्यद्वारा पात्रस्य मुखादिकं चित्रादिकं च कारयति 'कोरियं आहटुदिज्जमाणं' कोरितमाहृत्य दीयमानं चित्रितं पात्रं परद्वारा सम्मुखमागत्य दीयमानम् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०५५॥
सूत्रम्-जे भिक्खू णायगं वा अणायगं वा उवासंग वा अणुवासगं वा गामंतरंसि वा गामपहंतरंसि वा पडिग्गहं ओभासिय आभासिय जायइ जायंतं वा साइज्जइ ॥सू० ५६ ॥
छाया---यो भिक्षुञ्जतकं वा अज्ञातकं वा उपासकं वा अनुपासकं ग्रामान्तरे वा ग्रामपथान्तरे वा प्रतिग्रहमवभाष्यावभाष्य याचते याचमानं वा स्वदते ॥ सू० ५६ ॥
चूर्णि- 'जे भिक्खू' इत्यादि । 'जे भिवखू' यः कश्चिद् भिक्षुः ‘णायगं वा' ज्ञातकं वा स्वजनं वा तत्र स्वजनः पूर्वसंस्तुतः पश्चात्संस्तुतश्च, तत्र पूर्वसंस्तुतः पूर्वपरिचितो मातापितृभ्रातृप्रभृतिकः, पश्चात्संस्तुतः श्वशुरश्वश्रश्यालकादिः 'अणायगं वा' अज्ञातकम् अस्वजनं स्वजनभिन्नो वा पूर्वपरिचितः ग्रामवासी देशवाशी वा तम् 'उवासगं वा' उपासकं जिनधर्मानुयायिनं श्रावक श्राधिका वा 'अणुवासगं वा' अनुपासकं श्रावकभिन्नं यं कमपि वा 'गामंतरंसि वा' ग्रामान्तरे वा-द्वयोमयोर्मध्यभागे 'गामपहंतरंसि वा' प्रामपथान्तरे वा ग्रामस्य मार्गद्वयमध्ये 'ओभासिय ओभासिय' अवभाष्यावभाष्य उच्चैःशब्देन कथयित्वा कथयित्वा 'पडिग्गहं' प्रतिग्रहं पात्रादिकम् 'जायइ' याचते पात्रयाचनां करोति 'जायंतं वा साइज्जई' याचमानं वा स्वदते स प्रायश्चित्तभागू भवति ।
अत्राह भाष्यकारः--
શ્રી નિશીથ સૂત્ર