SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ ३४२ निशीथसूत्रे छाया-यो भिक्षुः अनन्तरहितायां पृथिव्यां प्रतिग्रहं आतापयेद् वा प्रतापये वा, आतापयन्तं वा प्रतापयन्तं वा स्वदते ॥ सू० ३२ ॥ चूर्णी-. 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'अणंतरहियाए' अनन्तरहितायाम् अनन्तरहिता नाम सचित्ता तस्यां सचित्तायाम् 'पुढवीए' पृथिव्यां पूर्वोक्तरुपायाः पृविव्या उपरीत्यर्थः 'पडिग्गहं' प्रतिग्रहं पात्रम् 'आयावेज्ज वा' आतापयेद् वा एकवारम् ‘पयावेज्ज वा' प्रतापयेद् वा अनेकवारम् एवम् , 'आयातं वा' आतापयन्तं वा 'पयावेंतं वा' प्रतापयन्तं वाऽन्यम् 'साइज्जई' स्वदतेऽनुमोदते स प्रायश्चित्तभाग् भवति ॥ ३२॥ एवं 'ससणिद्धाए पुढवीए' त्रयस्त्रिंशत्तमसूत्रादारभ्य द्विचत्वारिंशत्तमसूत्रपर्यन्तदशसूत्राणां व्याख्या त्रयोदशोद्देशकोक्तद्वितीयसूत्रादारभ्यैकादशपर्यन्तसूत्रव्याख्यावदवसेया, विशेषस्त्वेतावानेव यत्-तत्र सचितपृथिव्यादौ स्थानशय्यानिषद्यानषेधिकीनां प्रतिषेधः कृतः, अत्र तु प्रतिग्रहस्यातापनप्रतापनविषयः प्रतिषेधः प्रोक्त इति ॥ सू० ३३-४२ ॥ सूत्रम्-जे भिक्खू पडिग्गहाआ पुढवीकार्य नीहरेइ नीहरावेइ नीहरियं आहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंत वा साइज्जइ ॥४३॥ एवं आउकायं ॥ सू० ४४॥ तेउकायं ।। सू० ४५॥ छाया-यो भिक्षुः प्रतिग्रहात् पृथिवीकार्य निर्हरति निर्हारयति निहतं आहत्यदीयमानं प्रतिगृह्णाति प्रतिगृह्यन्तं वा स्वदते ॥ सू० ४३ ॥ एवं अप्कायम् ॥ सू० ४४ ॥ तेजस्कायम् ।। सू० ४५ ।। चूर्णिः -- 'जे भिक्खु' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः गृहस्थगृहे पात्रग्रहणसमये यदि 'पडिग्गहाओ' प्रतिग्रहात् पात्रात् 'पुढवीकार्य' सचित्तपृथिवीकायं लवणगैरिकादिकं यदि पतेत् तत् 'नीहरेइ' निर्हरति निष्कासयति स्वयमेव तथा 'नीहरावेई' निर्हारयति अन्येन गृहस्थेन वा 'नीहरियं आहटु दिज्जमाणं' निर्दृतं निष्कासितं सदपि आहत्य अभिमुखमानीय दीयमानं पात्रम् 'पडिग्गाहेइ' प्रतिगृह्णाति स्वीकरोति स्वीकारयति वा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति ॥ सू० ४३ ।। ‘एवं आउकायं तेउकार्य' इति, अनेनैव प्रकारेण अप्कायतेजस्काययोरपि निर्हरणविषयं सूत्रद्वयं व्याख्येयम् । अग्निकायनिर्हरणमेवं भवति पात्रे केनापि कारणेन अकस्माद्वा अग्निकणः पतितो भवेत् तं निष्कास्य ददाति इति ॥ ४४-४५॥ एवमेव कस्द-मूल-पत्र-पुष्प-फल-बीज-हरितविषयकाणि सप्त सूत्राणि ॥ सू० ५२॥ एवम् औषधिबीजविषयकं सूत्रम् , तत्र औषधिः शाल्याद्यन्नं तस्य बीजानीति कणान् निर्हरति, इत्यादि શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy