________________
चूर्णिभाष्यावचूरिः उ० १४ सू. ३२-५४ पात्रस्यातापनतद्गतपृथिवीकायादिनिस्सारणनि०३४१
अत्राह भाष्यकारःभाष्यम् -- घसणे खालणे लेचकरणे पायगस्स हि ।
पावई बहुणो दोसा, भिक्खू एत्थ न संसओ ॥ छाया -घर्षणे क्षालने लेपकरणे पात्रकस्य हि ।
प्राप्नोति बहून् दोषान् भिक्षुरत्र न संशयः ।। अवचूरिः--- नवं मया पात्रं लब्धमिति कृत्वा यो भिक्षुः श्रमणः श्रमणी वा घर्षणमेकवारमनेकवारं वा करोति तथा नवीनपात्रस्य नवाकारमेव पात्रं सर्वथा तिष्ठतु इति बुद्ध्या तैलादिना घर्षणं मर्दन करोति कारयति वा कुर्वन्तं वा अनुमोदते, तथा क्षालनं पात्रस्य सुगन्धिकरणाय दुरभिगन्धनिवृत्तये, नवस्य नवाकारमेव सर्वथा तिष्ठतु इति बुद्ध्या अचित्तशीतोष्णजलेन करोति परद्वारा वा कारयति तथा कुर्वन्तमनुमोदते, तथा लेपने नवप्राप्तस्य पात्रस्यः नवत्वदृढतायै सुरभिगन्धपात्रस्य सुरभिगन्धस्थापनाय दुरभिगन्धपात्रस्य दुर्गन्धनिवृत्त्यर्थ लोध्रादिद्रव्येण लेपनं करोति कारयति तथा कुर्वन्तमनुमोदते । एवं बहुदैवसिकसूत्रेष्वपि, तैलघृतनवनीतादिना-सकृत् असकृद्वा मर्दनम् , अचित्तशीतोष्णजलेन प्रक्षालनं करोति कारयति कुर्वन्तमनुमोदते स भिक्षुः श्रमणः श्रमणी वा बहून् आज्ञाभङ्गादिकान् आज्ञाभङ्गानवस्थामिथ्यात्वसंयमविराधनात्मविराधनारूपान् दोषान् प्राप्नोति, अत्रैतस्मिन् न कोपि संशयः, एते दोषा भवन्त्येव तेषामिति भावः । इमे चान्येपि दोषा भवन्ति तथाहि-तैलादिना पात्रस्य घर्षणे कृते हस्ताद्यङ्गानामुपघातो भवति, तथा नवनीतादिषु विद्यमानजीवानामप्युपघातो भवति, तथा पात्रस्य दुर्गन्धनिवारणाय आतापस्थाने धूपनादिकरणे सम्पातिकजीवानां विराधनमपि जायते, तथा उत्पीडने च भूमिगता जीवा अपि विराधिता भवन्ति, यस्मात् तैलादिना घर्षणादिकरणे एते पूर्वोक्ता दोषा भवन्ति तस्मात्कारणात् श्रमणः श्रमणी वा अपरिकर्मितं यदृच्छया प्राप्तमेव पात्रादिकं धारयेत् , तथा ताशस्यैवोपभोगमपि कुर्यात् , न तु कदाचिदपि सुगन्धितलब्धपात्रादीनां सुगन्धितां दृढयितुं दुरभिसंप्राप्तपात्रस्थ दुर्गन्धस्यापनयनाय तेलादिना बहुदैवसिकतैलादिना मर्दनलेपनशीतोष्णान्यतराचित्तजलेन प्रक्षालनादिकं स्वयं न कुर्यात् न वा परद्वारा कारयेत् न वा तैलादिना मर्दनादिकं कुर्वन्तं श्रमणान्तरं कथमपि कदाचिदप्यनुमोदयेदिति, किन्तु शास्त्रसंमतपद्धतिमाश्रित्यैव संयमाराधनं कर्तव्यं कारयितव्यं कुर्वन्तं वा अनुमोदनीयम् न तु कदाचिदपि स्वमनीषया किमपि तत्र न्यूनाधिकभावः करणीयः, सर्वज्ञभाषितपरमसूक्ष्मविषये स्वमनीषया विचारस्यायोग्यत्वात् ॥ सू०३१॥
सूत्रम्-जे भिक्खू अणंतरहियाए पुढवीए पडिग्गहं आयावेज्ज वा पयावेज्ज वा, आयातं वा पयावेतं वा साइज्जइ ॥ सू० ३२॥
શ્રી નિશીથ સૂત્ર