________________
३३८
निशीथसूत्रे हस्तपादादिपरिपूर्णाङ्गाय साधवे साध्वै वा यदि कोपि मुनिः यत् पात्रादि वस्त्रपात्राद्युपकरणजातं सातिरेकं साधुकल्पादधिकं तत् दद्यात् स दोषभाग् भवति-आज्ञाभङ्गादिदोषान् प्राप्नोतीति भावः ॥सू० ६॥
सूत्रम्-जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरगस्स वा थेरियाए वा हत्थछिण्णस्स पायच्छिण्णस्स नासाछिण्णस्स कण्णछिण्णस्स ओट्ठछिण्णस्स असकस्स न देइ न देंतं वा साइज्जइ ॥
छाया--यो भिक्षुरतिरेकं प्रतिग्रहं क्षुल्लकाय वा क्षुल्लिकायै वा स्थविराय वा स्थविरायै वा हस्तछिन्नाय पादछिन्नाय नासाछिन्नाय कर्णछिन्नाय ओष्ठछिन्नाय अशक्ताय न ददाति न ददतं वा स्वदते ॥ सू० ७॥
चूर्णी--सूत्रोक्तहस्तछिन्नादिविशेषणविशिष्टेभ्यः, साधुसाध्वीभ्यः अतिरेकं पात्रं न ददाति न ददतमनुमोदते स प्रायश्चित्तभागी भवति ॥सू० ७ ॥
सूत्रम्-जे भिक्खू पडिग्गह अणलं अथिरं अधुवं अधारणिज्जं धरेइ धरतं वा साइज्जइ ॥सू०८॥
छाया-यो भिक्षुः प्रतिग्रहमनलमस्थिरमध्रुवमधारणीयं धरति धरन्तं वा स्वदते ॥
चूर्णी--'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘पडिग्गहं' प्रतिग्रहं पात्रम् 'अणलं' अनलम्-अपर्याप्तम् , तत्र अलं शब्दः पर्याप्त्यर्थकः न अलमनलम् अपर्याप्तम् असंपूर्ण खण्डितावयवमित्यर्थः 'अथिरं' अस्थिरम् अदृढम् 'अधुवं' अध्रुवम् , तत्र ध्रुवं दीर्घकालभावि तथा च दीर्घकालभावि यत् न भवति तत् अध्रुवम् 'अधारणिज्ज' अधारणीयम् न धारयितुं योग्यं यत् तत् अधारणीयम् अलक्षणसम्पन्नमित्यर्थः यादृशं लक्षणं पात्रस्य कथितं तादृशलक्षणविहीनं यत् पात्रं तत् अधारणीयमिति कथ्यते, एतादृशमनलमस्थिरमध्रुवमधारणीयपात्रम् यो भिक्षुः 'धरेइ' धरति, स्वसमीपे स्थापयति तथा 'धरत' वा साइज्जइ' धरन्तं वा स्वदते, यो हि अनलादिकपात्रस्य धारणं करोति कारयति तस्यानुमोदनं वा करोति स प्रायश्चित्तभागी भवति ।। सू० ८ ॥
सूत्रम्--जे भिक्खू पडिग्गहं अलं थिरं धुवं धारणिज्जं न धरेइ न धरेतं वा साइज्जइ ।। सू० ९॥
छाया-यो भिक्षुः प्रतिग्रहं अलं स्थिरं ध्रुवं धारणीयं न धरति न धरन्तं वा स्वदते ॥ सू० ९ ॥
શ્રી નિશીથ સૂત્ર