________________
चूर्णिभाष्यावचूरिः उ०४१ सू०६-८ अतिरेकप्रतिग्रहस्य समर्थासमर्थाय दानादाननि० ३३७
सूत्रम् - जे भिक्खू अइरेगं पडिग्गहं खुड्डगस्स वा खुड्डियाए वा थेरस्स वा थेरिया वा अहत्थच्छिन्नस्स अपायछिष्णस्स अनासाछिण्णस्स अकण्णछिष्णस्स अणोइछिण्णस्स सक्क्स्स देइ देतं वा साइज्जइ ॥ सू०६ ॥
छाया यो भिक्षुरतिरेकप्रतिग्रहं क्षुल्लकाय वा क्षुल्लिकायै वा स्थविराय वा स्थविरायै वा अहस्तछिन्नाय अपादछिन्नाय अनासाछिन्नाय अकर्णछिन्नाय अनोष्ठछिन्नाय शक्ताय ददाति ददतं वा स्वदते ।। सू० ६ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'अइरेगं पडिग ' अतिरेकं प्रतिग्रहं प्रमाणादधिकं प्रतिग्रहं पात्रं यस्य पात्रस्य यावत् प्रमाणं शास्त्रे कथितं तदपे - क्षया अधिकं पात्रमतिरेकभिति कथ्यते, तादृशपात्रम् 'खुड्डगस्स' क्षुल्लकायानतिक्रान्तवालवयस्काय बालकायेत्यर्थः, 'खुड्डियाए वा' क्षुल्लिकायै वा बालिकायै 'थेरगस्स वा स्थविरायवृद्धाय वा ‘थेरियाए वा' स्थविरायै वा वृद्धायै इत्यर्थः, कथंभूतेभ्य-क्षुल्लकादिभ्यः ? तत्राह - 'अहत्थच्छिष्णस्स' अहस्तच्छिन्नाय न हस्तौ छिन्नौ भग्नौ यस्य स अहस्तछिन्नः हस्ताद्यव - यसंपन्नः, तस्मै अहस्तछिन्नाय तथा 'अपायच्छिण्णस्स' अपादछिन्नाय न पादौ चरणौ छिन्नौ विभग्नौ यस्य स अपादछिन्नः पादावयवसम्पन्नः; तस्मै अपादच्छिन्नाय तथा 'अणासाच्छिण्णस्स' अनासाछिन्नाय न छिन्ने कर्तिते नासिके यस्य स अनासाछिन्नः तस्मै अनासाछिन्नाय नासिकावयवसम्पन्नाय 'अकण्णछिष्णस्स' अकर्णछिन्नाय - अच्छिन्नकर्णाय कर्णसंपन्नायेत्यर्थः 'अणोइछिण्णस्स' अनोष्ठछिन्नाय न छिन्नौ ओष्ठौ पूर्वापरौ यस्य स तथाविधः तस्मै अनोष्ठछिन्नाय ओष्ठावयवसम्पन्नाय एतावता सर्वावयवसम्पन्नत्वं प्रदर्शितम् अत एव सक्कस' शक्ताय समर्थाय तत्र शारीरिक मानसिकादिबलयुक्तः समर्थः तादृशाय शक्तिसम्पन्नाय 'देह' ददाति सर्वाङ्गोपाङ्गयुक्तबलवीर्यादिसम्पन्नाय यो भिक्षुरतिरेकपात्रं समर्पयति तथा 'देतं वा साइज्जइ' ददतं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारः --
भाष्यम्[ - बालस्स य वुइटस्स य, साहुस्स साहुणिस्स वा । सक्करसाणं गछिन्नस्स, देज्ज पत्ताइ दोसभा ||
छाया - बालाय च वृद्धाय च साधवे साध्यै वा । शक्तायाऽनङ्गछिन्नाय दद्यात् पात्रादि दोषभाक् ॥
अवचूरि:- रे:- बालाय बाल्यावस्थासम्पन्नाय, वृद्धाय स्थविराय वा साधवे तथा एतादृश्यै साध्यै वा, कोदृशाय ? शक्ताय शक्तिसम्पन्नाय गमनागमनसमर्थाय तथा अनङ्गछिन्नाय
શ્રી નિશીથ સૂત્ર