________________
निशीथसूत्रे छाया-यो भिक्षुरतिरेकप्रतिग्रहं गणिमुद्दिश्य गणिं समुद्दिश्य तं गणिमनापृ. च्छय अनामन्त्र्य अन्योन्यस्मै वितरति वितरंतं वा स्वदते ॥ सू० ५ ॥
चूर्णी --- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'अइरेगपडिग्गहं' अतिरेकप्रतिग्रहम्-प्रमाणादधिकं पात्रं यावत्प्रमाणकं पात्रादिकं श्रमणार्थ शास्त्रे कथितं ततोऽधिकम् , अयं भावः-उत्कृष्टेन एकस्य साधोः कृते पात्रत्रयं चतुर्थमुन्दकं तीर्थकरेणानुज्ञातं, ततोऽधिकं पात्रम् अतिरेकमिति कथ्यते । अथवा-यावत्संख्यक पात्रग्रहणं कथितं तदपेक्षया यदि बहुतरं गृह्णाति ततोऽतिरेकमिति कथ्यते । अथवा अनेन प्रकारेणातिरेको भवेत्-यथा कोपि साधुः पात्रयाचनार्थ प्रस्थितः तत आचार्यः पृच्छति क गच्छसि, तदा स वदति पात्रमानेतुम् , पात्रेषु छिद्राणि जातानि । तदा आचार्यः कथयति-सर्वसाध्वर्थ पात्राणि आनयतु । तदा स निर्गतः पात्रमानेतुम् मार्गे गच्छन् संभोगिसाधुना स दृष्टः, संभोगी साधुर्वदति-क गच्छसि ? स प्रोवाच आचार्येण सर्वेषां पात्रग्रहणाय प्रस्थापितोऽस्मि । तदा सांभोगिकः साधुर्वदति-भो श्रमण ! यावन्ति पात्राणि गुरुणा ते ग्रहीतुं संदिष्टानि तावत्सु पात्रेषु गृहीतेषु यदि तदतिरिक्तं पात्रं लब्धं भवेत् तदा ग्रहीतव्यं, गृहीत्वा च मह्यं समर्पणीयम् , अहमाचार्य विज्ञापयिष्यामि । ततः पात्रान्वेषकः साधुर्वदति-एवं करिष्यामीति । ततः स गतः पात्रमानेतुम् ततो लब्धं तावत्प्रमाकं पात्रं यावन्मात्रं गुरुणा संदिष्टं ततोऽधिकमपि पात्रं लब्धं गृहीतं च । एवं प्रकारेणातिरेकपरिग्रहो भवति । अथवा यदीदं पात्रं त्रुटितं स्फुटितं स्फटितं वा स्यात् तदा ग्रहीतव्यं भवेत् , संप्रति प्रायोग्यं च लभ्यते, इति कृत्वा आत्मछन्दसा अनिर्दिष्टान्यपि पात्राणि गृहीतानि इत्यतिरेकपरिग्रहो भवतीति । "गणिं उद्देसिय गणिं समुद्देसिय" यं गणिमुद्दिश्य यं गणिं समुद्दिश्य अतिरेकपात्रं गृहीतम् तत्र विशेषित उद्देशो यथागृहीतमतिरेकपात्रादिकं साधर्मिकाय दास्यामीति, तथा विशेषितः समुद्देशः यथा सति साधर्मिके साधर्मिकाय दास्यानि, अथवा उद्देशः -गणितो दास्यामि वाचकाय वा दास्यामि, समुद्देशो यथा अमुकगणिने दास्यामि अमुखवाचकाय वा दस्यामीति । तत्र सामान्यतोऽवधारणमुद्देशो विशेषतो निर्धारण समुद्देश इति निष्कर्षः । "तं गणि अणापुच्छिय अणामंतिय" तं गणिनं यदर्थमतिरेकपात्रस्य ग्रहणं कृतवान् तम् अनापृच्छ्य पृच्छामकृत्वैव अनामन्त्र्य आमंत्रणमकृत्वैव, यमुद्दिश्य अतिरेकपात्रादिकं गृहीतवान् तं दृष्ट्वा गिमन्त्रणं, यथा-इदं त्वदीयं पात्रादिकं स्वेच्छया गृहाण, अथ यदर्थमानीतवान् स प्रत्यक्षतो न मिलति तदा अन्यं पृच्छति कुत्र गतवान् स साधुरमुको वाचको गणी वा इति प्रच्छनम् , दृष्टे आमन्त्रणमदृष्टे पृच्छेति विवेकः । “अणमण्णस्स वियरइ" अन्योन्यस्मै वितरति यं समुद्दिश्याऽऽनीतवान् तमनापृच्छय अनामन्त्र्यान्यस्मै स्वेच्छया वितरति ददाति, तथा 'वियरंतं वा साइज्जइ' वितरन्तं ददतं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥सू. ५॥
શ્રી નિશીથ સૂત્ર