SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १४ सू० ९-३१ प्रतिग्रहस्य वर्णादिविपर्ययकरणनिषेधः ३३९ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः 'पडिग्ग' प्रतिग्रहं पात्रम् 'अलं' अलं पर्याप्तम् 'थिरं' स्थिरं दृढम् 'धुवं' ध्रुवं चिरकालपर्यन्तमपि स्थायि 'धारणिज्जं ' धारणीयं धतु योग्यं पात्रस्य यत् लक्षणं प्रदर्शितम् तादृशलक्षणयुक्तम् 'न घरे' न धरति यत् पात्र कार्यकरणसमर्थं दृढं चिरकालस्थायि सर्वलक्षणलक्षितं न घरति न स्वकीयपार्श्वेऽवस्थापयति तथा ‘न धरतं वा साइज्जइ' न धरन्तं वा स्वदते, यो हि भिक्षुः सर्वथा - लक्षणादिसम्पन्नमपि पात्रादिकं न धरति तस्यानुमोदनं करोति स प्रायश्चित्तभागी भवति ॥ सू०९ ॥ सूत्रम् - जे भिक्खू वण्णमंतं पडिग्गहं विवण्णं करेइ करेंतं वा साइज्जइ ॥ सू० १०॥ छाया - यो भिक्षुर्वर्णवन्तं प्रतिग्रहं विवर्ण करोति कुर्वन्तं वा स्वदते ॥ सू० १० ॥ चूर्णी - ' जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'वण्णमंतं पडिग्गहं' वर्णवन्तं प्रतिग्रहं शोभायुक्तम् 'विवण्णं करेइ' विवर्ण करोति, तत्र कुत्सितो वर्णों नीलादिकः यस्य दर्शनेन मनसि अप्रीतिर्जायते तादृशेन कुत्सितवर्णेन युक्तं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० १० ॥ सूत्रम् — जे भिक्खू विवणं पडिग्गहं वण्णमंतं करेइ करेंत वा साइज्जइ ॥ सू० ११ ॥ छाया- - यो भिक्षुर्विवर्ण प्रतिग्रहं वर्णवत् करोति कुर्वन्तं वा स्वदते ॥ सू० ११ ॥ --- चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'विवण्णं पडिग्ग' विवर्णे प्रतिग्रहं पात्रम् विगतवर्ण क्षारतिक्तोष्णजलादिना विगतवर्णं प्रतिग्रहं पात्रादिकं पुनरपि 'वर्णमंत करेइ' वर्णवत् करोति शोभनवर्णयुक्तं करोति 'करेंतं वा साइज्जइ' कुर्वन्तं वा स्वद स प्रायश्चित्तभागी भवति ॥ सू० ११ ॥ सूत्रम् — जे भिक्खू नवए मे पडिग्गहे लद्धे ति हुटु तेल्लेण वा घण वा णवणीण वा बसाए वा मक्खेज्ज वा मिलिंगेज्ज वा मक्तं वा मिलितं वा साइज्जइ ॥ सू० १२ ॥ छाया- -यो भिक्षुर्नवो मया प्रतिग्रहो लब्ध इति कृत्वा तैलेन वा घृतेन वा नवनीतेन वा वसया वा म्रक्षयेत् वा अभ्यङ्गयेत् वा प्रक्षयन्तं वा अभ्यङ्गयन्तं वा स्वदते ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'नव मे पडिग्ग लद्धे' नवो मया प्रतिग्रहो लब्धः प्रतिग्रहः पात्रं लब्धम् 'त्ति कट्टु' इति कृत्वा लब्धस्य प्रति શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy