________________
चूर्णिभाष्यावचूरिः उ० १४ सू०३ प्रतिग्रहस्य परिवर्तनादिना ग्रहणनिषेधः ३३३ हे दयालो ! कुत्र भवान् निवासं करोति ? साधुरुवाच अमुकोपाश्रये सम्प्रति वसामि । ततो द्वितीयद्विवसे स गृहस्वामी गृहकार्य सर्व कृत्वा तस्मिन् उपाश्रये साधोदर्शनार्थ गतवान् । ततः स गृहस्वामी साधोर्वन्दननमस्कारादिकं विधाय समुपविष्टः, ततः स साधुस्तस्मै धर्मकथा कथितवान्-हे श्रावक ! सर्वो जीवः स्वस्वकर्मपराधीनः सर्वमपि कार्य करोति तत्र दयादिधर्मः सम्यक् पालनीयो येन इहलोके परलोके उभयत्रापि सुखं भवेत् , आरम्भसमारम्भादिकं जीवानां नरकपातायैव केवलं भवति । एवं क्रमेण वृहती धर्मकथा कथितवान् । ततः साधुमुखात् संसारस्य नश्वरभावं मोक्षस्य च शाश्वतभावं निरतिशयसुखरूपं च ज्ञात्वा संसारात् जातवैराग्योऽभवत् । तदीयस्वजनादयोपि नानाविधमभिग्रहं गृहोतवन्तः । सम्यक्तवं प्रतिपन्नः सन् अणु. व्रतानि गृहीत्वा द्वादशव्रतधारी जातः । ज्ञातदासीवृत्तान्तो दासी मुक्तवान् । लोकोत्तरं प्रामित्यं साधुः साधुतः प्रामित्यं करोति, तत्रापि पुनरदाने परस्परं कलहवैमनस्यादयो बहवो दोषाः समापद्यन्ते, तस्मात् प्रामित्यपात्रादिग्रहणं न कार्यम् । उपलक्षणत्वात् वस्नाहारादिकं किमपि न ग्राह्यम् ॥ सू० २।
सूत्रम्--जे भिक्खू पडिग्गहं परियट्टेइ परियडावेइ परियट्टियमाहटु दिज्जमाणं पडिग्गाहेइ पडिग्गाहेंतं वा साइज्जइ॥ सू० ३॥
छाया-यो भिक्षुः प्रतिग्रहं परिवर्तते परिवर्तयति परिवर्तितमाहृत्य दीयमानं प्रतिगृहाति प्रतिगृहन्तं वा स्वदते ॥सू० ३॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः ‘पडिग्गह' प्रतिग्रहं पात्रम् 'परियटेइ' परिवर्तते स्वयं परिवर्तनं करोति स्वकीयं पात्रम् अन्यस्मै ददाति अन्यस्य च पात्रं स्वयं गृह्णाति तथा 'परियहादेइ' परिवर्तयति अन्यद्वारा पात्रं परिवर्तयति 'परियट्टियमाहटु दिज्जमाणं' परिवर्तितमाहृत्य दीयमानं परिवर्तितं पात्रं अभिमुखमागत्य ददतम् 'पडिग्गाहेई' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गाहेंतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदते स प्रायश्चित्तभागी भवति ।
अत्राह भाष्यकारःभाष्यम् --परिवट्टियं च दुविहं, लोइय लोगुत्तरं समासेण ।
एक्केक्कंपि य दुविहं, तद्दब्वे अण्णदग्वे य ॥ छाया-परिवर्तितं च द्विविधं लौकिकं लोकोत्तर समासेन ।
____एकैकमपि द्विविध तद्रव्ये अन्यद्रव्ये च ॥
अवचूरिः-सूत्रे परिवर्तितपात्रादेर्ग्रहणे तदुपगोगे च निषेधः कथितः, तत् परिवर्तितं पात्रादिकं द्विविधं द्विप्रकारकं भवति-एकं लौकिकमपरं लोकोत्तरं च, तत्र लौकिकं गृहस्थानां
શ્રી નિશીથ સૂત્ર