________________
३३२
निशीथसूत्रे
छाया-प्रामित्यादिकपात्रं तु द्विविधं परिकीर्तितम् ।
लोकोत्तरं लौकिकं च तद्ग्रहणे दोषभाग् यतिः ॥ अवचूरिः-प्रामित्त्यादिकपात्रम् उच्छिन्नक्रीतम् कापितमनुमोदितमेतत्सर्व द्विविधं द्विप्रकारक परिकीर्तितं कथितं भवतीत्यर्थः, लौकिकं लोकोत्तरिकं च, तत्र लौकिकं प्रामित्त्यं गृहत्थेन श्रमणार्थ 'मूल्यं दास्यामी'-तिकृत्वा यत् उद्धाररूपेण क्रीतं, तस्योदाहरणमिदम्
एको जिनदत्तनामा कौशलपुरवास्तव्यः श्रावको दीक्षितो जातः, स चाचार्यसमीपे वसन् श्रुतमधीतवान् , अधीत्य च गीतार्थो जातः। तदनन्तरं स गुरुं पृष्टवान्-गुरो ! स्वकीयं संसारिबन्धुवगै दर्शनं दातुं स्वदेशं गन्तुमिच्छामि । ततो गुरुणा आज्ञप्तस्तं संसारिग्रामं गतवान् यत्र स्वकीया बन्धुबान्धवा आसन् , ततः सः प्रामाद् बहिरेन स्थित्वा तद्ग्रामीणं कमपि पृष्टवान् यत् भोः ! अमुकश्रावको अस्मिन् ग्रामे पूर्वकाले निवसन् आसीत् तस्य परिवारो सम्प्रति कः को विद्यते ? ततो ग्रामीणस्तममुकोयमिति ज्ञात्वा कथयति-भोः ! तव परिवारे केवलं तव भगिनी एव जीवति नान्यः । तदनन्तरं स साधुः स्वभगिन्या गृहं गतवान् , गत्वा च कुशलादिकथनान्तरं साधुरुवाच हे भगिनि ! मदर्थमाहारो न कर्तव्यः त्वया । इति कथितेपि सा उच्छिन्नमाहारजातं तन्मूल्यप्रदानप्रतिज्ञया कस्यचित् गृहादानीय दत्तवती । ततः सा यस्य गृहादानीतं यद्वस्तु तस्य मूल्यं तस्मै पुनर्न दत्तवती दारिद्रयात् , तत् उद्धारद्रव्यमूल्यमदत्तं प्रतिदिन विवृद्धं यस्य प्रत्यर्पणं कर्तुं सा श्रमणभगिनी समर्था न जाता । तदनन्तरं सा श्रमणभगिनी धनस्वामिनो गृहे दासी संजाता उद्धारद्रव्यमूल्यविमोचनाय, तदनन्तरं विहरन् कदाचित् स साधुः स्वभगिनी मिलितुं तद्गृहं गत्तवान् परन्तु सा न मिलिता तदा साधुना पृष्टं मम भगिनी कुत्र गता न दृश्यते गृहे, तदनन्तरमन्येन कथितं भवद्भगिनी द्रव्यमूल्यं दातुमसमर्था उद्धारद्रव्यदातुः श्रेष्ठिनो गृहे दासी संजाता, तस्य श्रेष्ठिन आज्ञानुसारेण दासीकर्म कुर्वाणा कालं गमयति । ततो गमनसमये कथंचित् मिलिता भगिनी रोदनं कुर्वाणा साधु सर्व समाचारं कथितवती। श्रमणश्च तामा श्वासयन् प्रोवाच-हे भगिनि ! मा रुद अचिरादेव त्वां दुःखान्मोचयिष्यामि । यदाहं तस्य श्रेष्ठिनो गृहे भिक्षार्थमागमिष्यामि तदा गृहपतेस्तस्य श्रेष्ठिनः प्रत्यक्षं यदा सचित्तोदकादिना आरंभंकुर्वाणा त्वं भविष्यसि तदाहं देशकालोचितं सर्वं करिष्यामि । ततः कदाचित् स श्रमणः तस्य श्रेष्ठिनो गृहं भिक्षार्थ गतवान् । तं समागतं दृष्ट्वा तद्भगिनी उदकाद्यारम्भे संलग्ना। साधुभिक्षार्थमागतं दृष्ट्वा गृहस्वामिना दास्यै प्रोवाच हे कर्मकरि ! साधवे भिक्षां देहि । श्रमणः तदीय. वचनं श्रुत्वा प्रोवाच -नाहं अहिष्यामि भिक्षां दासीहस्तात् । गृहस्वामी प्रोवाच भो-श्रमण ! कथं भिक्षां दासीहस्तात् न गृह्यते ? ततो लब्धावसरः साधुः भिक्षाया विशुद्धप्रसङ्गेन श्रमणधर्म श्रमणस्याचारविचारं सर्व श्रावितवान् । ततः सावधानो गृहस्वामी पुनरपि साधुं प्रति प्रोवाच
શ્રી નિશીથ સૂત્ર