SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ निशीथसूत्रे ३३४ लोकोत्तरं साधूनाम् । पुनरपि एकैकं द्विविधं द्विप्रकारकं भवति तद्द्रव्ये तथा अन्यद्रव्ये च । तद्द्रव्ये परिवर्तनं यथा पात्रं पात्रेण परिवर्तयति । अन्यद्रव्ये परिवर्तनं यथा पात्रं वस्त्रेण परिवर्तयति, वस्त्रं वा पात्रेणान्येन वा येन केनचित् वस्तुना परिवर्त्तयति । तत्र गृहस्थः संयताय दातुकामः पात्रादिकम् अन्यस्मै गृहस्थाय परिवर्तयितुं ददाति एतत् परिवर्तनं लौकिकम् । तथाहि -- कस्मिश्चित् प्रामे द्वौ श्रावकौ आस्ताम् तयोरेकैका भगिनी अपि आसीत्, तत्रैकस्य भगिनी अपरेण परिणोता, अपरस्य भगिनी अपरेण परिणीता, परस्परं तयोः भगिनीपतित्वेन सम्बन्धो जातः । ततः कालान्तरे तयोरेकस्यान्यो भ्राता संसारस्यासास्तां ज्ञात्वा प्रव्रजितो जातः । स सूत्रं सम्यगवीत्याचार्याज्ञया स्वजनवर्गाय दर्शनं दातुं सांसारिकग्रामे गतवान् परन्तु तस्य भगिनी दरिद्रा आसीत् कोद्रवाद्यन्नेन जीवनं यापयति परन्तु श्रमणाय भ्रात्रे भिक्षार्थ कोद्रवं नीत्वा भ्रातृगृहात् शाल्यन्नमानीतवती, एवंप्रकारेण साध्वर्थमोदनं परिवर्तितं कृतम्, ततो यदा तया स्वामिने भोजनकाले कोद्रवो दत्तस्तदा पृष्टवान् कस्मात् कोद्रवः समागतः ? किन्तु सा नोक्तवती किमपि । ततः क्रोधात् गृहपतिना गृहात् सा निष्कासिता । तच्छ्रुत्वा अन्योपि तद्भगिनीं निष्कासितवान् एवं क्रमेण तयोः परस्परं कलहो जातः ततः स साधुः तयोः कलहं ज्ञात्वा सम्यक्त्वधर्मोपदेशेन क्रोधफलं श्रावितवान् । ततः साधोरुपशमवचनं श्रुत्वा कलहान्निवृत्ता जाता: । यस्मादेते कलहादिदोषाः संभवन्ति तस्मात्कारणात् पात्रपिण्डादीनां परिवर्तनं न कर्तव्यम् । एवं साधुर्यत्र परस्परं परिवर्तनं पात्रादीनां करोति तत् लोकोत्तरं परिवर्तनम्, एवं साधुभिरपि परस्परं परिवर्तनं न कर्तव्यम् || सू० ३ ॥ सूत्रम् - जे भिक्खू पडिग्गहं अच्छिज्जं अणिसिद्धं अभिहड माहटुदिज्जमाणं पडिग्गा हेइ पडिग्गार्हतं वा साइज्जइ ॥ सू० ४ ॥ " छाया -यो भिक्षुः प्रतिग्रहमाच्छेद्य' अनिसृष्टमभिहतमाहृत्य दीयमानं प्रतिगृह्णाति प्रतिगृदन्तं वा स्वदते ॥ सू० ४ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः 'पडिग्गहं' प्रतिग्रहं पात्रम् 'अच्छिज्जं' आच्छेयम् अन्यस्वामिकं पात्रं साध्वर्थे बलात् गृहीत्वा दीयते तत् आच्छेयम्, अन्यस्वामिकवस्तु बलात्कारपूवर्क गृहीत्वा दीयमानं तथा स्वकीयमपि वस्तु दासादिहस्ते स्थितं तद् वस्तु तद्धस्तादाच्छिद्य साधवे यद् दीयमानं तदपि आच्छेद्यमुच्यते 'अणिसिदूं' अनिसृष्टम् - यद्वस्तु अनेकस्वामिकं तत् सर्वेषामाज्ञां विना ग्रहणम् अनिसृष्टमित्यर्थः, 'अभिहडं आह दिज्जमाणं' अभिमुखमाहृत्य दीयमानं साध्वर्थमभिमुखमागत्य यत् दीयते तादृशम् पात्रादिकम् 'पडिग्गा हेइ' प्रतिगृह्णाति स्वीकरोति तथा 'पडिग्गार्हतं वा साइज्जइ' प्रतिगृह्णन्तं वा स्वदतेऽनुमोदते स प्रायश्चित्तभागी भवति । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy