SearchBrowseAboutContactDonate
Page Preview
Page 408
Loading...
Download File
Download File
Page Text
________________ चूणिभाष्यावचूरिः उ०१३ सू० १७-३१ अन्यतीर्थिकगृहस्थानां कौतुककर्मादिकरणनि० ३१७ एतादृशं शुभमशुभं वा जातम्, अमुकप्रकारको लाभस्त्वया लब्धः, एतादृशं सुखं दुःखं वा प्राप्तम्', इत्यादिरूपं निमित्तं कथयति ।। सू० २३॥ एवमेव 'पडुप्पन्नं निमित्तं' प्रत्युत्पन्नं वर्तमानकालिक निमित्तं कथयति ॥ सू० २४॥ एवं 'आगमिस्सं निमित्तं कहेई' आगमिष्यत्कालिकं भविष्यत्कालिकं यत् 'तवाग्रे एतादृशं शुभमशुभं वा भविष्यती'त्यादिरूपं निमित्तं कथयति ॥ सू० २५॥ एवं 'लक्खणं कहेई' लक्षणं कथयति, तत्र लक्षणं द्विविधम् - बाह्यमाभ्यन्तरं च, तत्र बाह्यं-हस्वदीर्घशरीरावयवरेखादिकम्, आभ्यन्तरं-स्वभावसत्त्वादिकम् । बाह्यलक्षणं-हस्तपादादिशरीरावयवसंभवं द्वात्रिंशत्प्रमाणकं भवति यथा 'अयं द्वात्रिंशल्लक्षणः पुरुषः' इति, एतद्भिन्नान्यान्यपि लक्षणानि भवन्ति, यथा 'बलदेववासुदेवशरीरेऽष्टोत्तरशतम् , चक्रवर्तितीर्थकरशरीरेऽष्टोत्तरं सहनं लक्षणानां भवति तन्मध्यात्तव शरीरे इयन्ति लक्षणानि विद्यन्तेऽतस्त्वं महापुरुषो भविष्यसी'त्यादि, तथा 'तव शरीरे कानिचिदशुभलक्षणानि सन्तीत्यतोऽत्वं दुःखी भविष्यसी'त्यादि च लक्षणं कथयति ॥२६॥ एवं वंजणं कहेइ' व्यञ्जनं कथयति, तत्र-व्यञ्जनं-मशतिलादिकं कथयति-तद्विषयकं शुभाशुभफलं प्रतिपादयति ॥ सू० २७॥ 'मुमिणं कहेइ' स्वप्नं कथयति-स्वप्नफलं प्रतिपादयति, तत्र स्वप्नो द्विविधः-मनोविषयो ज्ञानविषयश्च, तं स्वप्नं प्रायः सुप्तजागरावस्थः पश्यति, स च स्वप्नो भविष्यकालिकसुखदुःखयोनिमित्तं भवति यथा मनुष्याणां मरणकाले पूर्वमेवारिष्टदशनं भवति तच्च सुखदुःखनिमित्तं जायते, तदरिष्टं त्रिविधं कायिकं वाचिकं मानसं च, तत्र कायिकं रोगपीडावणाधनेकप्रकारकम् १, वाचिकं सहसावाक्प्रतिबन्धादिकमनेकविधम् २, मानसिकमप्यरिष्टमार्थिककौटुम्बिकमनोमालिन्यादिविविधप्रकारकम् ३। स्वप्नदर्शनं पच्चप्रकारकं भवति याथातथ्य-प्रतत-चिन्ता-विपरीता-व्यक्तभेदात्, तत्र सर्वपापविरताः साधवः संवृताः याथातथ्यस्वप्नदशेकाः, इतरे गृहस्थादयः पार्श्वस्थादयश्च याथातथ्यं प्रति भजनीयाः, एषां स्वप्नं याथातथ्यं तद्विपरीतं वा भवेत् । यत् स्वप्नदर्शनं यथैव दृष्टं तथैव भवति तत् याथातथ्यं स्वप्नदर्शनम् १, प्रततस्तु स्वप्नसंतानः श्रृंखलावत् २, जागरितावस्थायां यत् चिन्तितं तदेव रात्रौ पश्यति तत् चिंतानामकं स्वप्नदर्शनम् ३, विपरीतं विपरोतफलदायकं स्वप्नदर्शनं तु तत् यत् शुचिसुगन्ध्यादिके मेध्ये स्वप्ने दृष्टे फलममेध्यं भवति, अमेध्ये स्वप्ने दृष्टे तत् फलं मेध्यं भवति, यथा दृष्टं तद्विपरीतं फलं यत्र भवति तद् विपरीतं स्वप्नदर्शनं चतुर्थम् ४, स्वप्नदशायां यत् दृष्ट प्रतिबुद्धोऽयं स्फुटरूपेण न संस्मरति, संस्मरन् वा यस्यार्थ सम्यग् नावगच्छति तदव्यक्तनामकं स्वप्नदर्शनं पञ्चमम् ५ । पञ्चप्रकारकोऽपि स्वप्नः पञ्चेन्द्रियविषयो भवति, सर्वेऽपि स्वप्नाः प्रायः इन्द्रियविषये एव भवन्तीति। अयं भावः-दृष्टस्य श्रुतस्य तदतिरिक्तस्य वा वस्तुनो वासनावशात् सुप्तावस्थानं मानसज्ञानं स्वप्नदर्शनम्, तत् त्रिविधं-धातुविकारजनितम् १, वासनाजनितम् २, अदृष्टजनितं ३ च। तत्रादृष्टजनितं स्वप्नदर्शनं सर्वथैव शुभाशुभं फलं ददात्येव, एतदतिरिक्तं तु फलं ददाति न वा ददातीति । શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy