SearchBrowseAboutContactDonate
Page Preview
Page 407
Loading...
Download File
Download File
Page Text
________________ ३१६ निशीथसूत्रे वा स्वदते ॥सू० १९॥ यो भिक्षुः अन्ययूथिकानां वा गृहस्थानां वा प्रश्नाप्रश्नं करोति कुर्वन्तं वा स्वदते ॥ सु० २०॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा प्रश्नं कथयति कथयन्तं वा स्वदते ॥ सू०२१॥ यो भिक्षुरन्ययुथिकानां वा गृहस्थानां वा प्रश्नाप्रश्न कथयति कथयन्तं वा स्वदते ॥सू० २२॥ यो भिक्षुरन्यथिकानां वा गृहस्थानां वा अतीतं निमित्तं कथयति कथयन्तं वा स्वदते सू० २३ ।। यो भिक्षुरन्ययुथिकानां वा गृहस्थानां वा प्रत्युत्पन्न निमित्तं कथयति कथयन्तं वा स्वदते ॥ सू० २४॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा आगमिष्यत् निमित्तं कथयति कथयन्तं वा स्वदते ॥ सू० २५।। यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा लक्षणं कथयति कथयन्तं वा स्वदते ॥सू०२६। यो मिथुरन्ययूथिकानां वा गृहस्थान वा व्यञ्जनं कथयति कथयन्तं वा स्वदते ॥ सु०२७॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा स्वप्नं कथयति कथयन्तं वा स्वदते ॥सू० २८॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा विद्यां प्रयुक्त प्रयुञ्जानं वा खदते ॥सू०२९॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा मन्त्रं प्रयुक्त प्रयुञ्जानं वा स्वदते ॥सू० ३०॥ यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा योगं प्रयुङ्क्ते प्रयुञ्जान वा स्वदते ॥सू०३१॥ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा' अन्ययूथिकानां वा 'गारत्थियाण वा' गृहस्थानां वा 'कोउगकम्मं करेइ' कौतुककर्म करोति, तत्र कौतुकं-दृष्ट्यादिदोषनिवारणाथें स्नानादिकमौषधादिकं वा करोति, तथा च यः श्रमणः परतीथिकानां कौतुककर्म करोति अर्थात् श्मशानचत्वरादिषु स्नानं कारयति अथवा कोऽपि तापसादिकः गृहस्थो वा ज्वरशूलादिरोगेण ग्लानो जातः तस्य ज्वरादिरोगशान्त्यर्थ सचित्तमचित्तं वा औषधादिकमानीय ददाति येन तस्य रोगः सद्य एव शान्तो भवति स नीरोगतां लभते तदेतत् श्मशानादिस्नानमौषधादिदानं च कौतुककर्म कथ्यते । अथवा कुतुकस्य भावः कौतुकं कुतूहलता गृहस्थादीनां मनोरञ्जनाय क्रियमाणं कर्म कौतुककर्म तथा 'करेंतं वा साइज्जई' कुर्वन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषा भवन्ति ॥ सू० १७॥ एवम् 'भूइकम करेइ' भूतिकर्म-शरीरादिरक्षार्थ भस्मपोट्टलिकाभिमन्त्रणरूपं करोति ॥सू० १८॥ 'पसिणं करेइ प्रश्नं करोति-अन्यतीर्थिकादिनिमित्तं दर्पणादौ देवाचाहानं कृत्वा शुभाशुभफलप्रच्छनरूपं करोति । सू० १९॥ 'पसिणापसिणं करेइ' प्रश्नप्रश्नं करोति-विद्यामन्त्रिताघण्टायाः कर्णमूले वादनेन तत्र देवताऽवतीर्य पृष्टस्य प्रश्नस्य विषये सा पुनरपि प्रश्नं करोति यत्तव पूर्वमेवमासीत् न वा?' इति एकस्मिन् प्रश्ने द्वितीयप्रश्नकरणम् , एवं प्रश्ने प्रश्नकरणरूपं प्रश्नप्रश्नमन्यतीर्थिकगृहस्थनिमित्तं करोति कुर्वन्तं वा स्वदते ॥ सू० २०॥ 'पसिणं कहेइ' प्रश्नं कथयति अन्यतीथिंकगृहस्थेभ्यः दर्पणाद्यवतीर्ण देवता कथितशुभाशुभफलरूपमुत्तरं कथयति. ॥ सू०२१ । एवम् 'पसिणापसिणं कहेई' प्रश्न प्रश्नं कथयति प्रश्नोंपरिप्रश्नस्योत्तरं कथयति ॥२२॥ 'तीयं निमित्तं कहेइ' अतीतं निमित्तं कथयति, अन्यतीर्थिकगृहस्थेभ्यः 'तवातीतकाले શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy