________________
३१८
निशीथसूत्रे एतादृशस्वप्नादिफलं कथयति ॥ सू० २८॥ एवं विद्या-मन्त्र-योग-प्रतिपादकानि त्रीणि सूत्राणि । तत्र 'विज्जं पउंजई' विद्यां प्रयुङ्क्ते, विद्या रोहिण्यादिका सधाधना वा विद्या-मारण-मोहन-वशीकरणो-च्चाटनादिरूपा, तां प्रयुक्ते तस्याः प्रयोगं करोति तद्विधिं प्रदर्शयति वा ॥ सू० २९॥ 'मंत पउंजई' मन्त्रं प्रयुङ्क्ते,तत्र मन्त्रम् असाधनं मन्त्रं यत् जपमात्रेण सिद्ध्यति,तस्य प्रयोगं करोति, ग्रहभूतप्रेतपिशाचादिजन्यं दुःखं निवारयितुं मन्त्रप्रयोगं करोति ॥सू० ३०॥ 'जोग पउंजई' योगं प्रयुङ्क्ते. तत्र योगः -अनेकवस्तूनां संयोगरूपः विद्वेषोत्सादनान्तर्धानादिकारकं चूर्णादिकं. यस्य प्रक्षेपेण विद्वेषादिकं जायते तादृशं योगं प्रयुङ्क्ते, योगप्रयोगं करोति । यः कोउपि श्रमणः श्रमणी वा अन्ययूथिकानां गृहस्थानां वा कौतुककर्मत आरभ्य योगप्रयोगपर्यन्तम् स्वयं करोति अन्येन वा कारयति, कुर्वन्तं वा अनुमोदते स आज्ञाभङ्गादिदोषान् प्राप्नोतीति ॥
अत्राह भाष्यकार:भाष्यम्-कोउयं च समारब्भ, जाव जोगं पउंजई' ।
करणाणुमोयणओ, आणाभंगाइ पावइ ॥ छाया कौतुकं च समारभ्य यावत् योगं प्रयुङक्ते ।
करणानुमोदनत आज्ञाभङ्गादि प्राप्नोति ॥ अवचूरिः-सूत्रे कौतुकसूत्रादारभ्य योगसूत्रपर्यन्तसूत्रेषु यत् कथितम् तस्य कौतुकादेः स्वयं करणात् अन्येन कारणात् कुर्वतोऽनुमोदनाद्वा श्रमणः श्रमणी वा आज्ञाभङ्गादिकं प्राप्नोति तस्याज्ञाभङ्गादिका दोषा भवन्तीति भावः ॥सू० ३१॥
सूत्रम्-जे भिक्खू अण्णउत्थियाण वा गारत्थियाण वा नट्ठाणं मूढाणं विप्परियासियाणं वा मग्गं वा पवेएइ संधिं वा पवेएइ मग्गओ वा संधि पवेएइ संधिओ वा मग्गं पवेएइ पवेएतं वा साइज्जइ ॥ सू० ३२॥
छाया - यो भिक्षुरन्ययूथिकानां वा गृहस्थानां वा नष्टानां मूढानां विपर्थस्तानां वा मार्ग वा प्रवेदयति संधि वा प्रवेदयति मार्गात् वा संधिं प्रवेदयति सन्धितो वा मार्ग प्रवेदयति प्रवेदयन्तं वा स्वदते ॥सू० ३२॥
चूर्णी-जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियाण वा अन्ययूथिकानां वा 'गारत्थियाण वा' गृहस्थानां वा 'णहाणं' नष्टानां मार्गभ्रष्टानां विस्मृतमार्गाणामित्यर्थः, गन्तव्यमार्ग विस्मृत्य इतस्ततो भ्रमतामिति यावत् 'मृढाणं' मूढानां दिङ्मोहादिना अटव्यां दिगभागमजानताम् 'विप्परियासियाणं' विषय॑स्तानां यत्र येन मार्गेण गन्तव्यं तं मार्ग परित्यज्य मार्गान्तरं प्रति प्रस्थितानाम् ‘मग्गं वा पवेएइ' मार्ग पन्थानं प्रवेदयति प्रकाशयति कथयतीत्यर्थः 'संधि वा पवेएइ' सन्धि वा प्रवेदयति, तत्र संधिः द्वयो
શ્રી નિશીથ સૂત્ર