________________
३१४
निशीथसूत्रे
छाया-जाति-कुल-रूप-भाषा-धन-बल-पर्याय-यश-स्तपो-लाभाः ।
११ १२ १३ १४ १५ १६ १७ सत्त्व-वयो-बुद्धि-धारणा-ऽवग्रह-शीलं समाचारः ॥१॥ एतेषु विषयेषु च, गाहस्थिकं अन्यतीर्थिकं वाऽपि । आगाढं परुषं नो वदेत् आशातयेत् नो वा ॥२॥ एतैर्वचनैः साधुः कुप्येत् किं पुनग्न्यः ।। एवं मर्मणि वचने, दोषा मरणादिका बहवः ॥३।।
अवचूरिः--जाति-कुलेति गाथात्रयम् । अत्र जात्यादयः सप्नदश प्रोक्ताः, तेऽर्थतः सुगमाः ॥१॥ द्वितीयगाथामाह-एएसु' इत्यादि, 'एएम' एतेषु पूर्वोक्तेषु जात्यादिषु विषयेषु गृहस्थमन्यतीर्थिकं वा आगाढं, परुषम्, आगाढपरुषं च नो वदेत्, तथा नो वा गृहत्थमन्यतीर्थिकं वा 'आसायए' आशातयेत्, न तयोः काञ्चिदम्याशातनां कुर्यात् ॥२॥ एवं करणे किं स्यात् ? इत्याह'एएहि' इत्यादि, 'एएहिं वयणेहि' एतैः पूर्वोक्तैरागाढादिरूपैर्वचनैः 'साहू' साधुः क्रोधनिग्रहपरो मुनिरपि 'कुप्पेज्ज' कुप्येत्-कोपाविष्टो भवेत् तहिं 'किं पुणो अन्नो' किं पुनरन्यः नो कुप्येत् ! इति काकुपाठः, एतादृशवचनैः साधोरपि कोपः स्यात् अन्यस्य तु का कथा इति भावः । अत्र के दोषाः । इति तान् दर्शयति-'एवं' इत्यादि ‘एवं' एवम् एतादृशे मर्मणि वचने मर्मवेधके वचने कथिते सति अत्र मरणादिका बह्वो दोषा भवन्ति । मर्मोद्घाटनसन्तापतप्ताः केचित् म्रियेरन् , साधुं वा आन्तरलग्नवैरभावेन दोषारोपं कृत्वा राजद्वारे नयेयुः, इत्यादि बहुदोषसंभवात् साधुरागाढादिकं वचनं न वदेत् , नो वा वदन्तं स्वदेत, नो वा अत्याशातनया तान् अत्याशातयेत् परकृतामत्त्याशातनां नानुमोदयेत् । एवं करणे साधुराज्ञाभङ्गादिदोषभागीभवतीति ॥३॥ जात्यादिषु आगाढा. दिवचनप्रकारः प्रदर्श्यते
अहं जातिमान् तथा कुलवान् त्वं तु नीचो जारजातो वेत्यादि १-२ । अहं रूपवान् त्वं तु कुरूपः ३। अहं मधुरभाषी त्वं नैतादृशः ४ । अहं धनी सन् दीक्षितः, त्वं तु निर्धनः ५ । अहं बलवान् , त्वं निर्व : ६ । अहं पर्यायज्येष्ठोऽस्मि बहु जानामि त्वं नैतादृशः ७ अहं यशस्वी त्वं लोकनिन्धोऽसि ८ । अहं तपस्वी त्वं नैतादृश: ९। मम बहुलाभो भवति त्वं न किमपि लभसे १० । अहं सत्त्ववान् आन्तरबली त्वं कातरः ११ । अहं वयोवान् त्वमचिरजातो बालः १२। अहं बुद्धिमान् त्वं निबुद्धिकः १३ । मम धारणाशक्तिस्तीवा वर्तते त्वं तु विस्मरणशील: १४ । अहमवग्रहे गुर्वादिज्येष्ठाज्ञायां वर्ते, त्वमुद्धतः १५। अहं शीलवान् त्वं नैतादशः १६। समाचार इति अहं साधुसामाचार्या वर्ते त्वं स्वकीयमयादामपि न पालयसि १७ । इत्यादि ।। सू० १३-१६ ॥
શ્રી નિશીથ સૂત્ર