________________
चूर्णिभाष्यावचूरिः उ०१३ सू० १३-१६ जन्यतीर्घिकादीनामागााढादिवचनात्याशातनानि० ३१३ जे भिखू अण्णउत्थियं वा गारत्थियं वा अण्णयरीए अच्चासायणाए अच्चासाएइ अच्चासाएंतं वा साइज्जइ ॥ सू०१६॥
छाया-यो भिक्षुरन्यतीर्थिकं वा गार्हस्थिकं वा आगाढं वदति वदन्तं वा स्वदते ॥ सू० १३॥ यो भिक्षुरन्यतीथिकं वा गार्हस्थिकं वा परुषं वदति वदन्तं वा स्वदते ॥१४॥ यो भिक्षुरन्यतीथिंक वा गार्हस्थिकं वा आगाढपरुष वदति वदन्तं वा स्वदते ॥ सू० १५॥ यो भिक्षुरन्यतीथिंकं वा गार्हस्थिकं वा अन्यतरया अत्याशातनया अत्याशातयति अत्याशा तयन्तं वा स्वदते ॥ सू० १६॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अण्णउत्थियं वा' अन्ययूथिकं वा तापसादिकं 'गारत्थियंवा' गार्हस्थिकं गृहस्थं वा 'आगाई' आगाढम्- आगाढवचनं कोपयुक्तवचनमित्यर्थः 'वयई' वदति-कथयति 'वयंतं वा साइज्जई' वदन्तमागाढवचनमन्यतीथिंकं गृहस्थं प्रति वा वदन्तं श्रमणान्तरं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति, तथा तस्याज्ञाभङ्गादिका दोषाश्चापि भवन्ति ॥ सू० १३॥ एवं 'फरुसं परुषं कठोरवचनं वदति वदन्तं वा स्वदते ॥ सू० १४॥ तथा 'आगाढफरुसं' आगाढपरुषंकोपयुक्तकठोरवचनं वदति वदन्तं वा स्वदते सः ॥ सू० १५॥ एवम्-अन्यतीर्थिक गृहस्थं वा 'अण्णयरीए-अच्चासायणाए' अन्यतरया, अन्यतीथिकाशातना-अन्यतीर्थिकं प्रति 'संसारस्वरूपं ज्ञात्वापि त्वं जिनोक्तं धर्म नाचरसि, सावधक्रियामवलम्बसेऽतस्त्वां धिक्' इत्येवं कथनरूपा । गृहस्थाशातना-गृहस्थं प्रति त्वं गृहस्थः सन् द्वादश व्रतानि नाचरसे, रात्रिभोजनसंरम्भसमारम्भादिकार्य कुरुषेऽतस्त्वां धिक्' इत्येवं कथनरूपा, इत्यादिस्वरूपया एकया कयाचिदाशातनयाऽपि 'अच्चासाएई' अत्याशातयति-अन्यतीर्थिकस्य गृहस्थस्य वा आशातनां करोति 'अच्चासाएतं' अत्याशातयन्तं वा आशातनां कुर्वन्तं वा 'साइज्जई' स्वदते स प्रायश्चित्तभागी भवति ॥१६॥
एतदागाढादिकं कस्मिन् विषये किमर्थ वा नो वदेत् ? इत्यत्राह भाष्यकारः-'जाइकुल' इत्यादि। भाष्यम्--जाइ-कुल-रूव-भासा, गण-बल-परियाग-जस-तवो-लाभा।
सत्त-वय-बुद्धि-धारण,-उग्गह-सीलं-समायारो ॥१॥ एएसु विसएमु य, गारत्थिय अनउत्थियं वावि । आगाढं फरुसं नो, वएज्ज आसायए नो वा ॥२॥ एएहिं वयणेहिं, साहू कुप्पेज किं पुणो अन्नो। एवं मम्मे वयणे, दोसा मरणाइया बहवो ॥३॥
શ્રી નિશીથ સૂત્ર