________________
२९२
निशीथसूत्रे
पर्वतेषु भूमित उद्गच्छज्जलप्रवाहस्थानानि 'वाचीणि वा' वापीर्वा वाप्यः प्रसिद्धास्ताः, 'पोक्खरिणी वा' पुष्करिणीर्वा-कमलोत्पत्तिस्था नजलाशयविशेषान् लघुतडागान् वा 'दीहियाणि वा' दीर्घिका वा चतुष्कोणा वापीः 'गुंजालिया वा' गुञ्जालिका वा वापीविशेषान् वा, 'सराणि वा' सरांसि वा-तडागाः तानि 'सरपंतियाणि वा' सरःपङ्क्तीर्वा सरांसि तडागास्तेषां पंक्तीर्वा 'सरंसरपंतियाणि वा' सरःसरःपंक्तीर्वा येषु एकस्मात् सरसः अन्यत्सरः प्रति जलं गच्छति ताः सरःसरःपंक्तीः, एतानि जलस्थानानि 'चक्खुदंसणवडियाए' इत्यादिपदानां व्याख्या पूर्ववद् विज्ञेया । वप्रादीनां च दर्शने 'सम्यक् सुन्दरं चैत' दिति कथने तदनुमोदनं स्यादित्यनुमोदने तदारम्भजन्यदोषसद्भावात् प्रायश्चित्तभागी भवति । अप्रशंसने लोकानां मनसि खेदो भवति तज्जन्यप्रायश्चित्तमापद्येत संयमात्मविराधनाऽपि भवति अतः पूर्वोक्तवस्तूनि द्रष्टुं न मनसि विचारयेत् , न वा पश्येत् न वा दृष्टिपथं कुर्वन्तमनुमोदेत ॥ सू० १७॥
सूत्रम्-जे भिक्खू कच्छाणि वा गहणाणि वा णूमाणि वा वणाणि वा वणविदुग्गाणि वा पव्वयाणि वा पव्वयविदुग्गाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥सू० १८॥
छाया-यो भिक्षुः कच्छान् वा गहनानि वा नूमानि वा वनानि वा वनविदुर्गाणि वा पर्वतान् वा पर्वतविदुर्गाणि वा चक्षुदर्शनप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥सू० १८॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कच्छाणि वा' कच्छान् वा, तत्र कच्छाः जलबहुलप्रदेशाः इक्ष्वादिवाटिका वा तान् ‘गहणाणि वा' गहनानि अनेकवृक्षाकुलकाननानि वा 'शूमाणि वा' नूमानि वा, तत्र 'नूमं' इति देशी शब्दः छादनार्थः, तेन नमानि गुप्तगृहवनानि, 'वणाणि वा' वनानि वा एकजातीयवृक्षसमुदायरूपाणि, तानि 'वणविदुग्गाणि वा' वनविदुर्गाणि वा, तत्र नानाजातीयवृक्षयुक्तवनसमुदायरूपाणि 'पन्चयाणि वा' पर्वतान् वा 'पव्वयविदुग्गाणि वा' पर्वतविदुर्गाणि वा अनेकपर्वतसमुदायरूपाणि -तानि 'चक्खुदसणवडियाए' इत्यादि व्याख्या पूर्ववत् ॥ सू० १८॥
सूत्रम्--जे भिक्खू गामाणि वा णगराणि वा निगमाणि वा खेडाणि वा कबडाणि वा मडंबाणि वा दोणमुहाणि वा पट्टणाणि वा आगराणि वा संबाहाणि वा संनिवेसाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥ सू० १९॥
શ્રી નિશીથ સૂત્ર