SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १२ सू० १९-२३ ग्रामादीनां मह-वध-पथ- दाह-दर्शनेच्छा निषेधः २९३ छाया - यो भिक्षुग्रमान् वा नगराणि वा नियमान् वा खेटानि वा कर्बटानि वा डम्बानि वा द्रोणमुखानि वा पत्तनानि वा आकरान् वा संवाहान् वा संनिवेशान् वा चक्षुर्दर्शनप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ सू० १९ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गामाणि वा' ग्रामान् वा, तत्र ग्रामाः वृतिवेष्टिताः तान् 'णगराणि वा' नगराणि वा नगराणि यत्र अष्टादशकरादिकं न गृह्यते तादृशानि स्थानानि तानि 'णिगमाणि वा' निगमान् वा, निगमाः प्रभूततरवणिग्जननिवासाः, तान् वा, 'खेडाणि वा' खेटानि वा, तत्र खेटानि नाम धूलिप्राकारवेष्टितानि तानि 'कब्बडाणि वा' कर्बेटानि वा तत्र कर्बटानि कुत्सितानि नगराणि, अल्पजननिवासस्थानानि वा 'मडबाणि वा' मडंबानि वा' मडम्बानि सार्द्धक्रोशद्वयाभ्यन्तरे ग्रामान्तररहितानि, तानि, ‘दोणमुहाणि वा' द्रोणमुखानि वा - द्रोणमुखानि जलस्थलोपेता जननिवासाः, तानि 'पट्टणाणि वा' पत्तनानि वा, तत्र पत्तनानि समस्तवस्तुप्राप्तिस्थानानि तानि द्विविघानि जलपत्तनानि स्थलपत्तनानि च तत्र नौभिर्येषु गम्यते तानि जलपत्तनानि येषु च शकटादिभिर्गम्यते तानि स्थलपत्तनानि तानि ' आकराणि वा आकरान् वा सुवर्णादीनामुत्पत्तिस्थानानि 'संवाहाणि वा' संबाहान् वा, तत्र संबाहा नाम अन्यत्र कृषिबलैर्धान्यरक्षार्थं निर्मितानि दुर्गमस्थानानि, तान् 'संनिवेसाणि वा' संनिवेशान् वा, तत्र संनिवेशा: - समागतसार्थवाहादिनिवासस्थानानि, तान् 'चक्खुदंसणवडियाए' इत्यादि व्याख्या पूर्ववत् ॥ सू० १९॥ सूत्रम् -- जे भिक्खू गाममहाणि वा नगरमहाणि वा णिगममहाणि वा खेडमहाणि वा कब्बडमहाणि वा मडवमहाणि वा दोणमुहमहाणि वा पट्टणमहाणि वा आगरमहाणि वा संवाहमहाणि वा संनिवेसमहाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेंतं वा साइज्जइ ॥ सू०२०॥ छाया - यो भिक्षुर्ग्राममहान् वा नगरमहान् वा निगममहान् वा कर्बटमहान् वा मडम्बमहान् वा द्रोणमुखमहान् वा पत्तनमहान् वा आकरमहान् वा संवाहमहान् वा संनिवेशमहान् वा चक्षुर्दर्शनप्रतिज्ञया अभिसन्धारयति अभिसन्धारयन्तं वा स्वदते ||२०|| चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चित् भिक्षुः श्रमणः श्रमणी वा 'गाममहाणि वा' ग्राममहान् वा, तत्र ग्रामस्य महा उत्सवा ग्राममहाः ग्रामोत्सवा इत्यर्थः तान् 'मेला' इति भाषाप्रसिद्धान् एवं नगरादिशब्दानां व्याख्या पूर्वसूत्रतो विज्ञेया, तेषां नगरादीनां पूर्वोक्तानां सर्वेषां महान् नगराद्युत्सवान् 'चक्खुदंसणवडिया ए' चक्षुर्दर्शनप्रतिज्ञया इत्यादि व्याख्या पूर्ववत् ॥ सू० २० ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy