SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १२ सू० १६-१८ काष्ठकर्मादि-वप्रादि-कच्छादिदर्शनेच्छानिषेधः २९१ चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कट्ठकम्माणि वा' काष्ठकर्माणि वा काष्ठनिर्मितप्रतिकृतिपुत्तलिकाविशेषलक्षणानि 'चित्तकम्माणि वा' चित्रकर्माणि वा-चित्रलिखितपुत्तलिकारूपाणि 'पोत्थकम्माणि वा' पुस्तकर्माणि वा-पुस्तकरूपाणि वस्त्रखण्डनिर्मितपुत्तलिकादिलक्षणानि वा 'लेप्पकम्माणि वा' लेप्यकर्माणि वा लेपनादिना निर्मितपुत्तलिकादिरूपाणि 'दंतकम्माणि वा' दन्तकर्माणि वा हस्तिदन्तादिनिर्मितवस्तूनि 'मणिकम्माणि वा' मणिकर्माणि वा चन्द्रकान्तमण्यादिनिर्मितानि वस्तूनि 'सेलकम्माणि वा' शैलकर्माणि वा प्रस्तरखण्डे चित्रितानि रूपाणि गंथिमाणि वा' प्रन्थिमानि वा प्रन्थिनिर्मितपुत्तलिकादीनि 'वेढिमाणि वा' वेष्टिमानि वा वस्त्रादिभिर्वेष्टनं कृत्वा निमितानि वस्तूनि पूरिमाणि वा' पूरिमाणि वा तण्डुलादि पूरयित्वा निर्मितानि स्वस्तिकादीनि 'संघाइमाणि वा' संघातिमानि अनेकवस्त्रखण्डान् संयोज्य कृतानि ‘पत्तच्छेज्जाणि वा' पत्रछेद्यानि वा कदल्यादीनां पत्राणि छित्वा निर्मितानि पुत्तलिकादीनि भ्रमरादिवत् छिद्राणि कृत्वा चित्रितानि 'विविहाणि वा' विविधानि-अनेकप्रकाराणि वा 'वेहिमाणि वा' वैधिकानि वा पत्रकाष्ठादिवेधनेन निर्मितानि 'कोरणी' इति भाषा प्रसिद्धकर्मणा कृतानि, एतानि पूर्वोक्तानि सर्वाणि 'चक्खुदंसणवडियाए' चक्षुर्दर्शनप्रतिज्ञया चक्षुषा दर्शनेच्छया 'अभिसंधारेइ' अभिसंधारयति चक्षुषा द्रष्टुं मनसि धारयति निश्चयं करोती. त्यर्थः 'अभिसंधारेंतं वा साइज्जई' अभिसन्धारयन्तं वा स्वदते अनुमोदते, यो हि श्रमणः काष्ठकर्मादीनि द्रष्टुं निश्चयं करोति तथा निश्चयं कुर्वन्तं योऽनुमोदते स प्रायश्चितभागी भवति । सू० १६॥ सूत्रम्--जे भिक्खू वप्पाणि वा फलिहाणि वा उप्पलानि वा पल्ललाणिवा उज्झराणि वा निज्झराणि वा वावीणि वा पोक्खरिणी वा दीहियाणि वा गुंजालियाणि वा सराणि वा सरपंतियाणि वा सरसरपंतियाणि वा चक्खुदंसणवडियाए अभिसंधारेइ अभिसंधारेतं वा साइज्जइ ॥सू०१७॥ छाया-यो भिक्षुः वप्रान् वा परिखा वा उत्पलानि वा पल्वलानि वा उज्झरान् वा निर्झरान् वा वापीर्वा पुष्करिणीर्वा दीर्घिका वा गुंजालिका वा सरांसि वा सरःपंक्तीर्वा सरःसरपंक्तीर्वा चक्षुदर्शनप्रतिज्ञया अभिसंधारयति अभिसंधारयन्तं वा स्वदते ॥ चूर्णी- 'जे भिक्ख इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वप्पाणि वा' वप्रान् क्षेत्राणि वा 'फलिहाणि वा' परिखा वा-खातविशेषान् 'उप्पलाणि वा' उत्पलानि वा- उत्पलस्थानभूतान् जलाशयविशेषान् 'पल्ललाणि व' पल्वलानि वा, तत्र पल्वलानि क्षुद्रजलाशयाः तानि 'उज्झराणि वा' उज्झरान् वा-उपरितः पतज्जलप्रवाहान् वा 'निज्झराणि वा' निर्झरान् वा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy