SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ ॥ द्वादशो देशकः ॥ व्याख्यात एकादशोद्देशकः, साम्प्रतमवसर प्राप्तो द्वादशोद्देशकः व्याख्यायते, तत्र - एकादशोदेशकस्यान्तिम सूत्रेण सह द्वादशोदेशकस्यादिसूत्रस्य कः सम्बन्ध इति चेदाह भाष्यकारः -- भाष्यम् – मरणपसंसा नो चे, कप्पइ भिक्खुस्स तं कहं काउं । बद्धस्स होज्ज मरणं, कत्थइ तस्स य निसेोऽत्थ ॥१॥ छाया - मरणप्रशंसा नो चेत् कल्पते भिक्षोः तत् कथं कर्तुम् । बद्धस्य भवेन्मरणं, कथ्यते तस्य च निषेधोऽत्र ॥१॥ अवचूरि : -- गिरिपतनादिकं बालमरणं प्राणातिपात इति कृत्वा यदि तस्य प्रशंसनं न कल्पते तदा तत् मरणं कर्त्तुं कथं कल्पते ? तत्तु सुत्तरां नैव कल्पते, तच्च मरणं बद्धभत् इत्यतोऽत्र द्वादशोदेशके तस्य बन्धस्य निषेधः कथ्यते, एष एव एकादशोदेशकेन सहास्य द्वादशोद्देशकस्य सम्बन्धः । अनेन सम्बन्धेनायातस्यास्य द्वादशोद्देशकस्येदमादिसूत्रम् -'जे भिक्खू कोलुणवडिया' इत्यादि । सूत्रम् - जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाईं तणपासएण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेतपासएण वा सुत्तपासएण वा रज्जुपासएण वा बंधइ बंधतं वा साइज्जइ ॥ सू० १९ ॥ छाया- -यो भिक्षुः कारुण्यप्रतिज्ञया अन्यतरां त्रसप्राणजाति तृणपाशकेन वा मुजपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपाशकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बध्नाति बध्नन्तं वा स्वदते ॥ सू० १ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोलुणवडियाए' कारुण्यप्रतिज्ञया - करुणाबुद्धया, तत्र करुणाया भावः कारुण्यं तस्य प्रतिज्ञेति वाञ्छा कारुण्यप्रतिज्ञा, तथा शय्यातरकरुणाबुद्धया यदि बुभुक्षितो वत्सः स्वेच्छया दुग्धं पास्यति तदा दोहनसमये गृहस्थस्याल्पं दुग्धं मिलिष्यति ततो गृहस्थस्याधिकं दुग्धं भवतु इति गृहस्थस्य प्रसन्न - तार्थ, तथा यदि गृहस्थः प्रसन्नो भविष्यति तदा मह्यं अन्यस्मै वा साधने प्रभूतमशनादि वसत्या - दिकं च दास्यतीति गृहस्थानुग्रहार्थ 'अण्णयरं तसपाणजाई' अन्यतरां त्रसप्राणजाति गोमहिष्यजाप्रभृतिरूपां 'तणपासएण ' तृणपाशकेन वा, तत्र तृणो दर्भादिः तस्य पाशको बन्धनम्, तेन तृणबन्धन बनातीत्यग्रेण सम्बन्धः । ' मुंजपासएण वा' सुञ्जपाशकेन वा, तत्र मुञ्जो नाम तृणविशेषः तस्य पाशकेन बन्धनेनेत्यर्थः, 'कट्ठपासएण वा' काष्ठपाशकेन वा काष्ठबन्धनेनेत्यर्थः 'चम्मपासएण वा' चर्मपाशकेन वा मृगादिचर्मबन्धनेन 'वेत्तपासएण वा' वेत्रपाशकेन वा, तत्र वेत्रो શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy