SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ० १२ सू० १-२ त्रसप्राणजातिबन्धनमोचननिषेधः २८३ नाम लताविशेषः 'नेतर' 'बेंत' इति लोकप्रसिद्धः, तस्य बन्धनेन 'सुत्तपासएण वा' सूत्रपाशकेन वा कार्पासादिक सूत्रबन्धनेनेत्यर्थः, 'रज्जुपासएण वा' रज्जुपाशकेन वा, तत्र रज्जुः शणादिनिर्मिता तद्बन्धनेनेत्यर्थः 'बंधई' बध्नाति यः खलु श्रमणः श्रमणी वा शय्यातर प्रसन्नताबुद्धया तृणाद्यन्यतमबन्धनेन सप्राणिजातं बध्नाति बन्धने क्षिपति तथा 'बंधतं वा साइज्जइ' बध्नन्तं वा स्वदते, अनुमोदते स प्रायश्चित्तभागी भवति, बन्धनकरणे प्राणातिपातस्य संभवात् अतो भिक्षुः कस्यापि प्राणिजातस्य शय्या तर प्रसन्नता बुद्ध्या तृणाद्यन्यतमबन्धनेन न बन्धनं कुर्यात् न वा बन्धनं कारयेत् न वा बध्नन्तमनुमोदेत ॥ सू० १ ॥ सूत्रम् - जे भिक्खू कोलुणवडियाए अण्णयरं तसपाणजाई तणपासण वा मुंजपासएण वा कट्टपासएण वा चम्मपासएण वा वेतपासण वा सुत्तपासएण वा रज्जुपासएण वा बद्धेल्लगं मुंबई मुंचंतं वा साइज्जइ ॥ छाया - यो भिक्षुः कारुण्यप्रतिज्ञया अन्यतरां त्रसप्राणजाति तृणपाशकेन वा मुज्जपाशकेन वा काष्ठपाशकेन वा चर्मपाशकेन वा वेत्रपासकेन वा सूत्रपाशकेन वा रज्जुपाशकेन वा बद्धं मुञ्चति मुञ्चन्तं वा स्वदते ॥ सू० २ || चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'कोलुणवडियाए' कारुण्यप्रतिज्ञया गृहस्थानुकंपयेत्यादि सर्वे पूर्ववद् व्याख्येयम्, नवरम् 'बड़ेललगं' बद्धं सन्तं गोमहिष्यजादिकं शय्यातरानुपस्थितौ वनगमनवेलायां तत्प्रसन्नार्थम् 'मुंबई' मुश्चति बन्धनमुक्तं करोति 'मुंचत वा साइज्जइ' मुञ्चन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति । अत्राह भाष्यकारः -- भाष्यम् – सिज्जायर पसन्नद्धं, बंधए मुंचए पसू । दोसभाई भवे भिक्खू, न दोसो अणुकंपणे ॥ छाया - शय्यातर प्रसन्नार्थं बध्नाति मुञ्चति पशून् । दोषभागी भवेद् भिक्षुः, न दोषोऽनुकम्पने ॥ अवचूरि : - यः साधुः शय्यातर प्रसन्नार्थ शय्यातरस्य प्रसन्नतानिमित्तं ' पत्र ' पशून् गोवत्सादीन् 'बंध' बध्नाति तथा 'मुंचए' मुञ्चति स भिक्षुः 'दोसभाई' दोषभागी आज्ञाभङ्गादिदोषभागू 'भवे' भवेत्, किन्तु 'अणुकंपणे' अनुकम्पने अनुकम्पायां 'दोसो न' दोषो न भवति, पशोरनुकम्पया अग्न्याद्युपद्रवे तस्य बंधने मोचने वा साधुर्दोषभाग् न भवतीत्यर्थः । अत्रायं विवेकः- गृहस्थप्रसन्नार्थ बध्नाति मुञ्चति यथा - गोमहिष्यादिर्वनात् घासं चरित्वा समा શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy