________________
चूर्णि भाष्यावचूरिः उ. ११ सू. ०-९३
उद्देशकसमाप्तिः २८१ मरणं प्रशंसति तेषां प्रशंसां करोति कुर्वन्तं वा अनुमोदते स परस्मिन् आत्मनि वा मिथ्यात्व - स्थिरीकरणादिबहुदोषान् प्राप्नोति, यथा लोका एवं विचारयन्ति यत् इमे साधवः सर्वथा सुस्थिता - त्मनः ते ईमे गिरिपतनादिकं मरणं प्रशंसन्ति अतो निश्चितमेतत् गिरिपतनादिकं मरणं श्रेयस्करमतोऽवश्यमेव करणीयम् नास्ति एतादृशमरणकरणे कोपि दोषः, एवं प्रकारेण मिथ्यात्वमेव स्थिरीकृतं भवति । तथा एवं कुर्वन्तो आज्ञाभङ्गादिकाननेकान् दोषानपि लभेरन् । एवम् बालमरणस्य प्रशंसाकरणे शैक्षकः परिषहपराभूतः विंशतिमरणानां मध्यादेकतरमपि मरणं प्रतिपद्येत तदा निर्दयता समापद्यते, तेन तद्विराघनाजन्यं प्रायश्चित्तं प्राप्नुयात् तस्मात् बालमरणानि न प्रशसेत् । एषु विंशतिविधेषु मरणेषु वैहायसं गृध्रपृष्ठं चेति मरणद्वयमागमज्ञा - जीवदया चारित्रपतनादिकारणे समुत्पन्ने प्रशंसन्ति, तथा हि-यथा केनापि हिंसकपुरुषेण गृहीतो भवेत् स यदि तं जीवहिंसायां प्रेरयति, अथवा मैथुनार्थिन्या कामिन्या गृहीतो भवेत् सा यदि तं मैथुन सेवनार्थ प्रेरयति एतादृश्यां स्थितौ अगतिकगतिकः सन् वैहायसं मरणं समाद्रियते तदा तत्तस्य मरणं प्रशंसनीयं भवेत् । तथा धृतिबलसंपन्नो मुनिगृभ्रपृष्टमरणं करोतीति साधोराचरणीयत्वेन गृपृष्ठमण प्रशंसनीयमेव भवति तेनैतद्द्वयमपि मरणं कारणे प्रशंसायोग्यं भवति । सूत्रे यो निषेधः स दुःखाभिभूतमरणविषयको विज्ञेय इति विवेकः ॥ सू० ९५॥
सूत्रम् -- तं सेवमाणे आवज्जइ चाउम्मासियं परिहारहाणं अणुग्घा - इयं ॥ सू० ९६ ॥
॥ निसीहज्झयणे एगारसोदेसो समतो ||११||
छाया - तत् सेवमान आपद्यते चातुर्मासिकं परिहारस्थानमनुद्घातिकम् ||सू० ९३॥ ॥ इति निशीथाध्ययने एकादशोद्देशकः समाप्तः ॥ ११ ॥
चूर्णी - 'तं सेवमाणे' इत्यादि । 'तं सेवमाणे' तत् सेवमानः 'अयपायाणि वा' इत्यारम्य 'बालमरणाणि पसंसइ' इति पर्यन्तप्रायश्चित्तस्थानानां मध्यादेकस्यापि कस्यचित्प्रायश्चित्तस्थानस्य प्रतिसेवनां कुर्वन् श्रमणः श्रमणी वा आवज्जइ' आपद्यते प्राप्नोति 'चाउम्मासयं' चातुर्मासिकम् 'परिहारद्वाणं' परिहारस्थानं प्रायश्चित्तम् 'अणुग्धाइयं' अनुद्घातिकम् गुरुकम् प्रायश्चित्तं लभते इति ॥ सू० ९६ ॥
इति श्री - विश्वविख्यात - - जगद्वल्लभ - प्रसिद्धवाचक-- पञ्चदशभाषा कलितललितकला पालापकप्रविशुद्धगद्यपद्यनैकग्रन्थनिर्मापक - वादिमानमर्दक- श्री शाहू छत्रपति कोल्हापुरराजप्रदत्त“जैनशास्त्राचार्य” - पदभूषित - कोल्हापुरराजगुरु - बालब्रह्मचारि - जैनाचार्य-जैनधर्मदिवाकर - पूज्यश्री - घासीलालवति - विरचितायां “निशीथसूत्रस्य" चूर्णिभाष्यावचूरिरूपायां व्याख्यायाम् एकादशोदेशकः समाप्तः ॥ ११ ॥
શ્રી નિશીથ સૂત્ર