SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ चूर्णिभाष्यावचूरिः उ०११ सू० ८१-८६ यथाछन्दप्रशंसाद्यनलप्रवाजनादिनिषेधः २७५ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णिवेयण पिंडं' निवेदन पिण्डम् देवयक्षव्यन्तर निवेदनाय प्रस्तुतंभक्तादिकं तत् निवेदनपिण्डम् ‘भुंजइ' भुङ्क्ते देवताद्यर्थे यत् पिण्डं स्थापितं तादृशं निवेदनपिण्डं यो भिक्षुरुपभुङ्क्ते तथा 'भुजतं वा साइज्जइ' भुञ्जानं वा स्वदते स प्रायश्वित्तभागी भवति ॥ स्० ८४ ॥ सूत्रम् - जे भिक्खू अहाछंदं पसंसइ पसंसंतं वा साइज्जइ ॥ सू०८५ ॥ छाया - यो भिक्षुर्यथाछन्दं प्रशंसति प्रशंसन्तं वा स्वदते ॥सू० ८५ ॥ चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अहा छंद' यथाछन्दं, तत्र छन्दोऽभिप्रायः, तेन यथा येन प्रकारेण स्वस्याभिप्रायस्तदनुसारेण प्ररूपयति करोति स यथाछन्दः प्रोच्यते, तं 'पसंसई' प्रशंसते तस्य प्रशंसां करोति कारयति 'पसंसंतं वा' प्रशंसन्तमन्यं वा 'साइज्जइ' स्वदते स प्रायश्चित्तभागी भवति ॥ अत्राह भाष्यकारः --- भाष्यम् – जहछंदत्तं दुविहं, परूवणे तह भवेज्ज चरणे य । पडिलेहाइसु पढमं, बीयं पुण साहुकिरिया ॥१॥ छाया - यथाछन्दत्वं द्विविधं प्ररूपणे तथा भवेत् चरणे च । प्रतिलेखादिषु प्रथम, द्वितीयं पुनः साधुक्रियासु ॥ १ ॥ अवचूरि :- साघोर्यथाछन्दत्वं द्विविधं भवति, तत्र एकं प्ररूपणे प्ररूपणाविषये, द्वितीयं चरणे चारित्रविषये च । तत्र प्ररूपणे यथाछन्दत्वं यथा - वस्त्रपात्रादीनां नित्यं प्रतिलेखना न कर्त्तव्या किं तत्र निरन्तरं जीवाः परिवसन्ति येन नित्यमेव प्रतिलेखना क्रियते, द्वित्रादिदिवसव्यवधानेन करणे न कोऽपि दोषः । रजोहरणदशिकाः (रजोहरणफलिकाः ) ऊर्णादिकर्कश स्पर्शसूत्रैः किमर्थ क्रियन्ते, क्षौमिकादिमृदुस्पर्शसूत्रैः किं न क्रियन्ते ? कोऽत्र दोषः ?, इत्यादि प्ररूपणम् १ | चरणे यथाछन्दत्वं यथा - अस्मदाद्यर्थं सम्पादितमशनादि ग्रहीतव्यं येन यथारुचि भोजनं लभ्यते तेन संयमाराधनं सुकरं भवति, केऽत्राघाकर्मादिदोषाः समापतन्ति, एवं साधुनिमित्तसंपादिताऽशनादिग्रहणरूपं यथाछन्दत्वम्, यथा - शय्यातरपिण्डादानम्, गृहिपात्रग्रहणं, निर्ग्रन्ध्या सह वसनम्, इत्यादिसाधुक्रियासु चरणविषयकं यथाछन्दत्वं भवति । इत्याद्याचरणवन्तं यथाछन्दं साधुं न प्रशंसेत्, न वा प्रशंसां कुर्वन्तमन्यमनुमोदेत । यस्तस्य प्रशंसां करोति तथा प्रशंसन्तमनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८५ ॥ सूत्रम् - जे भिक्खू आहछंदं वंदइ वंदतं वा साइज्जइ ॥ सू० ८६ ॥ छाया -यो भिक्षुर्यथाछन्दं वन्दते वन्दमानं वा स्वदते ॥सू० ८६ ॥ શ્રી નિશીથ સૂત્ર
SR No.006362
Book TitleAgam 24 Chhed 01 Nishith Sutra Sthanakvasi
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1969
Total Pages550
LanguageSanskrit, Hindi, Gujarati
ClassificationBook_Devnagari, Agam, Canon, & agam_nishith
File Size28 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy