________________
निशीथसूत्रे
छाया - यो भिक्षुमीसादिकं वा मत्स्यादिकं वा मांसखलं वा मत्स्यखलं वा आहेण वा प्रहेणं वा संमेलं वा हिंगोलं वा अन्यतरद् वा तथाप्रकारं विरूपरूपं हियमाणं प्रेक्ष्य तया आशया तथा पिपासया तां रजनीमन्यत्र उपातिक्रामति उपातिक्रामन्तं वा स्वदते ॥ सू० ८३ ॥
२७४
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'साइयं वा' मांसादिकं वा यस्मिन् भोजने आदौ मांसं ददाति पश्चात् ओदनादिकं ददाति तत् मांसादिकं कथ्यते 'मच्छाइयं वा' मत्स्यादिकं वा यस्मिन् भोजने आदौ मत्स्यं ददाति अन्ते ओदनादिकं तत् मत्स्यादिकं भोजनम् 'मंसखलं वा' मांसखलं वा यत्र स्थाने मांसः शोष्यते तत् मांसखलम् 'मच्छखलं वा' मत्स्यखलं वा यत्र स्थाने मत्स्या शोष्यन्ते तत् मत्स्यखलं वा 'आहेणं वा पहेणं वा' आहेणं वा प्रहेणं वा भोजनगृहात् यद् आनीयते तत् आहेणम्, भोजनगृहात् यद् अन्यत्र नीयते तत् प्रहेणम्, यद्वा वधूगृहात् वरगृहे यत् नीयते तत् आहेणं, यत् वरगृहात् वधूगृहे नीयते तत् प्रहेणम् 'संमेलं वा' विवाहादौ यत् भक्तादिकं निर्मीयते तत् संमेलम् 'हिंगोलं वा' यत् मृतभक्तं तत् हिंगोलम् 'अण्णयरं वा तहष्पगारं ' अन्यतरद् वा तथाप्रकारम्, तत्रान्यतरत् कथितातिरिक्तं तथाप्रकारं कथितसदृशम् 'विरूवरूवं' विरूपरूपमनेकप्रकारकम् ‘हीरमाणं' ह्रियमाणम् गृहात् उद्यानादिषु भोजनार्थम् नीयमानम्, अथवा एकस्माद् ग्रामाद् ग्रामान्तरं प्रति नीयमानं मांसादियुक्तभोजनम् 'पेहाए' प्रेक्ष्य - दृष्ट्वा 'ताए आसाए ' तन्मांसादिकं लप्स्ये इति तल्लामेच्छया 'ताए पिवासाए' तया पिपासया तस्य मांसादियुक्ता - हारस्य पिपासया तृष्णया अभिलाषयेत्यर्थः ओदनादीनामशितुमिच्छा आशा, द्राक्षापानकादीनां पातुमिच्छा पिपासा, तया आशया पिपासया वा 'तं स्यणि अण्णत्थ उवाइणावेइ' तां रजनीम् अन्यत्र तद्ग्रहणेच्छाया शय्यातर वसतितोऽन्यवसतौ गत्वा रात्रिम् उपातिक्रामति उल्लङ्घयति 'उवाइणावेंतं वा साइज्जइ' उपातिक्रामन्तं वा उल्लङ्घयन्तं वा अनुमोदते स प्रायश्चित्तभागी भवति ।
ननु - ' एवं खलु चउहिं ठाणेहिं जीवा णेयरिताए कम्पं पकरेंति णेरइयत्ताए कम्म पकरेत्ता रइएस उवज्जंति, 'तं जहा' - महारंभयाए महापरिग्गहाए पंचिदियवहेणं कुणिमाहारेण" इत्यादिना यद्यपि मांसभक्षणं मद्यपानं च सूत्रेषु सर्वथैव निषिद्धं तत् कथमत्रैवं प्रतिपाद्यते ? इति चेदाह - कश्चित् मांसभक्षककुलोत्पन्नो दीक्षितो जात इति तस्य कदाचिदेवंप्रकारिकाऽभिलाषा जातिस्वभावात् संभवेत् इति संभाव्य तस्य शास्त्रे निषेधः कृतः ।। सू० ८३ ।।
सूत्रम् -- जे भिक्खू निवेयणपिंडं भुंजइ भुजतं वा साइज्जइ ॥ ८४ ॥ छाया - यो भिक्षुर्निवेदनपिण्डं भुङ्क्ते भुञ्जानं वा स्वदते ॥ सू० ८४॥
શ્રી નિશીથ સૂત્ર