________________
निशीथसूत्रे
चूर्णी- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'अहाछंद' यथाछन्दम् पूर्वोक्तप्रकारकं 'वंदइ' वन्दत नमस्कारादिकं करोति कारयति वा 'वंदतं वा साइज्जइ' यथाछन्दं वन्दमानं नमस्कारादिकं तथा तदीयगुणोत्कीर्तनादिकं च कुर्वाणं स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८६ ॥
सूत्रम् - जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं पव्वावे पव्वावेंतं वा साइज्जइ ॥ सू० ८७ ॥
छाया -- यो भिक्षुर्ज्ञातकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अनलं प्रत्राजयति प्रवाजयन्तं वा स्वदते ॥सू० ८७ ॥
चूर्णी -- 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'णायगं वा' ज्ञातकं वा 'अणायगं वा' अज्ञातकं वा, तत्र ज्ञातकः स्वजनः पितृपुत्रपौत्र दौहित्रभ्रातृप्रभृतिः, अज्ञातकः अस्वजनः स्वजनभिन्नः, अथवा ज्ञातकः प्रज्ञायमानः परिचितः संसाराव - स्थायाः प्रव्रज्यावस्थाया वा, अज्ञातकोऽज्ञायमानः अपरिचितः, एतादृशम् तथा 'उवासगं वा ' उपासकं श्रावकं वा 'अणुवासगं वा' अनुपासकं वा श्रावकभिन्नमन्यतीर्थिकं वा 'अणलं ' अनलं तत्रालं पर्याप्तः न अलमिति अनलम् अपर्याप्तम् - प्रव्रज्यायोग्यगुणरहितम् अयोग्यमित्यर्थः यः प्रत्राजनस्य योग्यो न भवति तादृशम् 'पव्वावेइ' प्रव्राजयति दीक्षयति तथा 'पव्वावेंतं वा साइज्जइ' प्रवाजयन्तं वा स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ।। सू० ८७ ॥
सूत्रम् - जे भिक्खू णायगं वा अणायगं वा उवासगं वा अणुवासगं वा अणलं उवद्वावेइ उवट्ठावेंतं वा साइज्जइ ॥ सू० ८८ ॥
छाया - यो भिक्षुर्ज्ञातिकं वा अज्ञातकं वा उपासकं वा अनुपासकं वा अनलमुपस्थापयति उपस्थापयन्तं वा स्वदते ॥सू० ८८ ॥
चूर्णी - 'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'गायगवा' ज्ञातकं परिचितं स्वजनं पुत्रभ्रातृप्रभृतिकम् 'अणायगं वा' अज्ञातकमपरिचितं स्वजनभिन्नं वा तथा 'उवासगं वा' उपासकं वा श्रावकं साध्वाराधकं 'अणुवासगं वा' अनुपासकं श्रावकभिन्नमन्यतीर्थिकं वा 'अणलं ' अनलमपर्याप्तमयोग्यमित्यर्थः 'उवद्वावेइ' उपस्थापयति - त्यक्तमहाव्रतं पुनर्महात्रते आरोपयति छेदोपस्थापनीयचारित्रं ददाति 'उवद्वावेंतं वा साइज्जइ' उपस्थापयन्तं वा स्वदते स प्रायश्चित्तभागी भवति ॥ सू० ८८ ॥
सूत्रम् - - जे भिक्खु णायगेण वा अणायगेण उवासएण वा अणुवासएण वा अणलेण वेयावच्चं कारावेइ कारावेंतें वा साइज्जइ ॥ सू० ८९ ॥
२७६
શ્રી નિશીથ સૂત્ર