________________
२७०
निशीथसूत्रे चूर्णी- 'जे भिक्ख' इत्यादि । 'जे भिक्ख' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'मुहवण्णं' मुखवर्णम्-मुखमिति प्रवेशः आदरणम् जिनप्रणीतादन्यवस्तुनः स्वीकरणमित्यर्थः तस्य वर्ण वर्णनं प्रशंसनं 'करेइ करोति, कारयति 'करेंत' कुर्वन्तं जिनोक्तविपरीतवस्तुनः प्रशंसा कुर्वन्तमन्यं 'साइज्जइ' स्वदते अनुमोदते स प्रायश्चित्तभागी भवति ॥ सू०७३॥
अत्राह भाष्यकार:--- भाष्यम् --मुहवणं तं चउहा, दवे खेत्ते य काल भावे य ।
तेसिं चउण्ह वोच्छं, नाणत्तं आणुपुवीए ॥१॥ दवे कुसत्थमाई, खेत्ते गंगाइ काल उवरागो ।
भावे कुधम्ममाई, तेसिं वणं न कायव्वं ॥२॥ छाया-मुखवर्ण तच्चतुर्धा द्रव्ये क्षेत्रे च काले भावे च ।
तेषां चतुर्णा वक्ष्ये नानात्वमानुपूर्व्या ॥१॥ द्रव्ये कुशास्त्रादि, क्षेत्रे गङ्गादि काले उपरागः ।
भावे कुधर्मादि तेषां वर्ण न कर्त्तव्यम् ॥२।। अवचूरिः-मुखवर्ण-जिनप्रणीतान्यस्वीकारप्रशंसनं द्रव्यक्षेत्रकालभावमेदात् चतुर्धा-चतुविधं भवति, तेषां चतुर्णामपि नानात्वं भेदान् आनुपूर्व्या-अनुकमेण वक्ष्ये कथयिष्यामि ॥१॥ तथाहिद्रव्ये द्रव्यतः कुशास्त्रादि, शाक्य-कपिले-श्वरवादिप्रभृतीनां शास्त्रं, मन्दिरनिर्माणजिनप्रतिमातत्प्रतिष्ठापनादि वा उपलक्षणात् कुमार्गस्य ग्रहणं भवति, स च त्रिशतत्रिषष्टिपाषण्डिनां शास्त्रं वा ?, क्षेत्रे क्षेत्रतः गङ्गादि-गङ्गाप्रयागप्रभासादितीर्थक्षेत्रम् । अथवा-शत्रुञ्जय-गिरनारादितीर्थक्षेत्रम् २, काले-कालतः उपरागादि, तत्र-उपरागश्चन्द्रसूर्यग्रहणं तद्विषयकः समयः ३, भावे-भावतः कुधर्मादि-चान्द्रायणादिकुव्रतगोभूमिसुवर्णदानादिकुदानप्रभृतिः ४ । एतेषां पूर्वोक्तानां प्रशंसनं न कर्तव्यम् । यः कोऽपि भिक्षुरेषां प्रशंसनं करोति कारयति कुर्वन्तं वा परमनुमोदते स प्रायश्चित्तभागी भवति, तस्य आज्ञाभङ्गानवस्थामिथ्यात्वादयोऽनेके दोषा भवन्तीति सप्ततितमसूत्रस्य भाष्यगाथाद्वयार्थः ॥सू०७३॥
सूत्रम्-जे भिक्खू वेरज्जविरूद्धरजंसि सज्जो गमणं सज्जो आगमणं सज्जे गमणागमणं करेइ करेंतं वा साइज्जइ ॥ सू०७४ ॥
छाया-यो भिक्षुः वैराज्यविरुद्धराज्ये सद्यो गमनं सद्य आगमनं सद्यो गमनागमनं करोति कुर्वन्तं वा स्वदते ॥सू०७४॥
चूर्णी-'जे भिक्खू' इत्यादि । 'जे भिक्खू' यः कश्चिद् भिक्षुः श्रमणः श्रमणी वा 'वेरज्जविरुद्धरजसि' वैराज्यविरुद्धराज्ये यत्र द्वयोः राज्ञोः परस्परं वैरभावः समुत्पन्नः, तथा द्वयोः राज्ञोः परस्परं गमनागमनं निषिद्धं तत् वैराज्यविरुद्धराज्यमिति कथ्यते । अथवा यत्र राज्ये पूर्वपुरुष
શ્રી નિશીથ સૂત્ર